यक्षै राक्षसगन्धर्वैरप्सरोभिर्यथा पुरा
तेषां पात्रविशेषांश्च दोग्धारं क्षीरमेव च
यथा क्षीरविशेषांश्च सर्वानेवानुपूर्वशः
कुद्धैर्महर्षिभिः पूर्वैः कारणं ब्रूहि तद्धि नः
एकाग्राः प्रयताश्चैव शुश्रूषध्वं द्विजोत्तमाः
वर्त्तनीयमिदं ब्रह्म नाव्रताय कथञ्चन
रहस्यमृषिभिः प्रोक्तं शृणुयाद्यो ऽनसूयकः
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम्
अत्रिवंशसमुत्पन्नो ह्यङ्गो नाम प्रजापतिः
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः
स धर्मं वृष्ठतः कृत्वा कामाल्लोकेष्वर्तत
वेदशास्त्राण्यतिक्रम्य सो ऽधर्मे निरतो ऽभवत्
न पिबन्ति तदा सोमं महायज्ञेषु देवताः
आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते
मयि यज्ञा विधातव्या मयि होतव्यमित्यपि
ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा
त्वं मा कार्षीरधर्मं वै नैष धर्मः सनातनः
पालयिष्ये प्रजाश्चेति पूर्वं ते समयः कृतः
वेनः प्रहस्य दुर्बुद्धिर्विदितेन च कोविदः
वीर्यण तपसा सत्यैर्मया वा कः समो भुवि
प्रभवं सर्वलोकानां धर्माणां च विशेषतः
सृजेयं वा ग्रसेयं वा नात्र कार्या विचारणा
अनुनेतुं तदा वेनस्ततः क्रुद्धा महर्षयः
ततो ऽस्य वामहस्तं ते ममन्थुर्भृशकोपिताः
ह्रस्वो ऽतिमात्रं पुरुषः कृष्णश्चापि बभूव ह
तमार्त्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन्किल
धीवरानसृजच्चापि वेनकल्मषसंभवान्
अधर्मरुचयश्चापि विद्धि तान्वेनकल्मषान्
अरणीमिव संरब्धा ममन्थुर्जातमन्यवः
पृथोः करतलाद्वापि यस्माज्जातः पृषुस्ततः