अङ्गात्सुनीथापत्यंवै वेनमेकं व्यजायत
प्रजार्थमृषयो यस्यममन्थुर्दक्षिणां करम्
जनयित्वा सुतं तस्य पृथुं प्रथितपौरुषम्
स धन्वी कवची जज्ञे तेजसा निर्दहन्निव
पृथुर्वैन्यस्तदा लोकान्ररक्ष क्षत्रपूर्वजः
तस्य स्तवार्थमुत्पन्नौ निपुणौ सूतमागधौ
प्रजानां वृत्तिकामानां देवैश्चर्षिगणैः सह
सर्पैः पुण्यजनैश्चैव पर्वतैर्वृक्षवीरुधैः
प्रादाद्यथेप्सि तं क्षीरं तेन प्राणानधारयन्
यथा महात्मना तेन पूर्वं दुग्धा वसुंधरा
यक्षै राक्षसगन्धर्वैरप्सरोभिर्यथा पुरा
तेषां पात्रविशेषांश्च दोग्धारं क्षीरमेव च
यथा क्षीरविशेषांश्च सर्वानेवानुपूर्वशः
कुद्धैर्महर्षिभिः पूर्वैः कारणं ब्रूहि तद्धि नः
एकाग्राः प्रयताश्चैव शुश्रूषध्वं द्विजोत्तमाः
वर्त्तनीयमिदं ब्रह्म नाव्रताय कथञ्चन
रहस्यमृषिभिः प्रोक्तं शृणुयाद्यो ऽनसूयकः
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम्
अत्रिवंशसमुत्पन्नो ह्यङ्गो नाम प्रजापतिः
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः
स धर्मं वृष्ठतः कृत्वा कामाल्लोकेष्वर्तत
वेदशास्त्राण्यतिक्रम्य सो ऽधर्मे निरतो ऽभवत्
न पिबन्ति तदा सोमं महायज्ञेषु देवताः
आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते
मयि यज्ञा विधातव्या मयि होतव्यमित्यपि
ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा
त्वं मा कार्षीरधर्मं वै नैष धर्मः सनातनः
पालयिष्ये प्रजाश्चेति पूर्वं ते समयः कृतः
वेनः प्रहस्य दुर्बुद्धिर्विदितेन च कोविदः
वीर्यण तपसा सत्यैर्मया वा कः समो भुवि