मधुरात्रेय इत्येते सप्त वै चाक्षुषेंऽतरे
अग्निष्टुदतिरात्रश्च सुद्युम्नशचेति ते नव
चाक्षुषस्य सुताः ह्येते षष्ठं चैव तदन्तरम्
विस्तरेणानुपूर्व्या च चाक्षुषस्यान्तरे मनोः
तस्यान्ववाये ये ऽप्यन्येतान्नो ब्रूहि यथातथम्
यस्यान्ववाये संभूतः पृथुर्वैन्यः प्रतापवान्
उत्तानपादं जग्राह पुत्रमत्रिप्रजापतिः
स्वायंभुवेन मनुना दत्तो ऽत्रेः कारणं प्रति
षष्ठं तदनु वक्ष्यामि उपोद्धातेन वै द्विजाः
धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता
धर्मस्य पत्न्यां लक्ष्मयां वै उत्पन्ना सा शुचिस्मिता
उत्तानपादो ऽजनयत्कन्ये द्वे च शुचिस्मिते
ध्रुवो वर्षसहस्राणि दश दिव्यानि वीर्यवान्
त्रेतायुगे तु प्रथमे पौत्रः स्वायंभुवस्य तु
तस्मै ब्रह्मा ददौ प्रीतो ज्योतिषां स्थानमुत्तमम्
तस्यातिमात्रामृद्धिं च महिमानं निरीक्ष्य तु
अहो ऽस्य तपसो वीर्यमहो श्रुतमहो व्रतम्
द्रुवे त्रिदिवमासक्तमीश्वरः स दिवस्पतिः
स्वां छायामाह वै सृष्टिर्भवनारीति तां प्रभुः
दिव्यसंहनना छाया दिव्याभरणभूषिता
प्राजीनगर्भं वृषभं वृकञ्च वृकलं धृतिम्
नाम्नोदारधियं पुत्रमिन्द्रो यः पूर्वजन्मनि
एवं मन्वन्तरं युक्त इन्द्रत्वं प्राप्तवान्प्रभुः
रिपुं रिपुञ्जयाज्जज्ञे वराङ्गी तु दिवञ्जयात्
व्यजीजनत्पुष्करिणी वारुणी चाक्षुषं मनुम्
एतदाचक्ष्व तत्वेन कुशलो ह्यसि विस्तरे
तेन सा वारुणी ज्ञेया भ्रात्रा ख्यातिमुपागता
कन्यायां सुमहावीर्या विरजस्य प्रजापतेः
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति वै नव
ऊरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान्