चैत्रस्तथैव पौलस्त्य ऋषयस्तामसेंऽतरे
प्रियभृत्यो परीक्षिच्च प्रस्थलो ऽथ दृढेषुधिः
पञ्चमेत्वथ पर्याये मनोः स्वारोचिषेंऽतरे
अमिताभा भूतरयो वैकुण्ठाः ससुमेधसः
चतुर्दश तु चत्वारो गणास्तेषां सुभास्वराः
सुमतिर्वा विरावश्च धामा नादः श्रवास्तथा
अमिताभाः स्मृता ह्येते देवाः स्वारोचिषेंऽतरे
अधृतिर्विधृतिश्चैव दमो नियम एव च
इत्येतानीह नामानि आभूतयसां विदुः
नाथो विद्वानजेयश्च कृशो गौरो ध्रुवस्तथा
मेधा मेधा तिथिश्चैव सत्यमेधास्तथैव च
दीप्तिमेधा यशोमेधा स्थिरमेधास्तथैव च
मेधजा मेधहन्ता च कीर्त्तितास्ते सुमेधसः
पौलस्त्यो दवबाहुश्च सुधामा नाम काश्यपः
ऊर्ध्वबाहुश्च वाशिष्ठः पर्जन्यः पौलहस्तथा
महावीर्यः सुसंभाव्यः सत्यको हरहा शुचिः
रैवतस्य च पुत्रास्ते पञ्चमं वै तदन्तरम्
प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः
आद्याः प्रसूता भाव्यश्च पृथुकाश्च दिवौकसः
दिवौकसः सर्व एव प्रोच्यन्ते मातृनामभिः
गणस्तु तेषां देवानामेकैको ह्यष्टकः स्मृतः
श्रोता मन्तानुमन्ता च त्वाद्या ह्येते प्रकीर्त्तिताः
सुमनाश्च प्रचेताश्च वनेनः सुप्रचेत्सौ
विजयः सुजयश्चैव मनस्योदौ तथैव च
भव्या ह्येते स्मृता देवाः पृथुकांश्च निबोधत
सत्कृतः सत्यदृष्टिश्च जिगीषुर्विजयस्तथा
लेशास्तथा प्रवक्ष्यामि नामतस्तान्निबोधत
ध्रुवो ध्रुवक्षितिश्चैव अत्युतश्चैव वीर्यवान्
मनोजवो महावीर्यस्तेषामिन्द्रस्तदाभवत्
सुधामा काश्यपश्चैव वशिष्ठो विरजास्तथा