अष्टमोनुग्रहः सर्गः सात्त्विकस्तामसश्च सः
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः
दुद्धिबुर्वाः प्रवर्तेयुस्तद्वर्गा ब्राह्मणास्तु वै
चतुर्द्धा च स्थितस्सो ऽपि सर्वभूतेषु कृत्स्नशः
स्थावरेषु विपर्यासस्तिर्यग्योनिषु शक्तितः
अथो ससर्ज वै ब्रह्मा मानसानात्मनः समान्
संबुद्ध्य चैव नामाथो अपवृत्तास्त्रयस्तु ते
ब्रह्मा तेषु व्यरक्तेषु ततो ऽन्यान्सा धकान्सृजन्
अभूतसृष्ट्यवस्था चे स्थानिनस्तान्निबोध मे
स्वर्गो दिशः समुद्राश्च नद्यश्चैव वनस्पतीन्
लताः काष्ठाः कलाश्चैव मुहूर्ताः संधिरात्र्यहाः
स्थाने स्रोतःस्वभीमानाः स्थानाख्याश्चैव ते स्मृताः
देवांश्चैव पितॄंश्चैव यौरिमा वर्द्धिताः प्रजाः
दक्षो ऽत्रिश्च वसिष्ठश्च सासृजन्नव मानसान्
ब्रह्मा यथात्मकानां तु सर्वेषां ब्रह्मयोगिनाम्
संकल्पं चैव धर्म च सर्वेषामेव पर्वतौ
संकल्पाच्चैव संकल्पो जज्ञे सो ऽव्यक्तयोनिनः
भृगुश्च हृदयाज्जज्ञे ऋषिः सलिलयोनिनः
पुलस्त्यश्च तथोदानाद्व्यानात्तु पुलहस्तथा
इत्येते ब्रह्मणः श्रेष्ठाः पुत्रा वै द्वादश स्मृताः
भृग्वादयस्तु ये सृष्टा न च ते ब्रह्मवादिनः
द्वादशैते प्रसूयन्ते सह रूद्रेण च द्विजाः
पूर्वोत्पत्तौ पुरा ह्येतौ सर्वेषामपि पूर्वजौ
विरजेते ऽत्र वै लोके तेजसाक्षिप्य चात्मनः
प्रजाधर्मं च कामं च वर्तयेते महौजसौ
ततः सनत्कुमारेति नाम तस्य प्रतिष्ठितम्
क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः
ततो ऽसुरान्पितॄन्देवान्मनुष्यांश्चासृजत्प्रभुः
प्रजननान्मनुष्यान्वै जघनान्निर्ममे ऽसुरान्
सुधायाश्च पितॄंश्चैव देवदेवः ससर्जह