पौलहो ऽथार्वरीवांश्च एते सप्तर्षयस्तथा
बृहदुक्थो नवः सेतुः श्रुतश्चेति नव स्मृताः
पुराणे परिसंख्याता द्वितीयं वै तदन्तरम्
मूलं मन्वन्तरस्यैते तेषां चैवान्वयाः प्रजाः
ऋषयो देवपुत्राश्च इति शास्त्रे विनिश्चयः
एतन्मन्वन्तरं प्रोक्तं समासाच्च न विस्तरात्
न शक्यो विस्तरस्तस्य वक्तुं वर्षशतैरपि
तृतीये त्वथ पर्याये उत्तमस्यान्तरे मनोः
सुधामानश्च ये देवा ये चान्ये वशवर्त्तिनः
सत्यो धृतिर्दमो दान्तः क्षमः क्षामो ध्वनिः शुचिः
इत्येते द्वादश प्रोक्ताः सुधामानस्तु नामभिः
विश्वधा विश्वकर्मा च मानसस्तु विराजसः
अवध्यो ऽवरतिर्देवो वसुर्धिष्ण्यो विभावसुः
रथोर्मिः केतुमाञ्छ्चैव कीर्त्तितास्तु प्रतर्दनाः
सुदानो वसुदानश्च सुमञ्जसविषावुभौ
शिवा ह्येते तु विज्ञेया यज्ञिया द्वादशापराः
दिक्पतिर्वाक्पतिश्चैव विश्वः शंभुस्तथैव च
अश्वश्चैव सदश्वश्च क्षेमानन्दौ तथैव च
इत्येता देवता ह्यासन्नौत्तमस्यान्तरे मनोः
पुत्रास्त्तवङ्गिरसस्ते वै उत्तमस्य प्रजापतेः
सप्तर्षयस्तु ते सर्व उत्तमस्यान्तरे मनोः
देवाम्वुजश्चाप्रतिमौ महोत्साहो गजस्तथा
उत्तमस्य मनोः पुत्रास्त्रयोदश महात्मनः
औत्तमः परिसंख्यातः सर्गः स्वारोचिषेण तु
चतुर्थे त्वथ पर्याये तामसस्यातरे मनोः
पुलस्त्यपुत्रास्ते देवास्तामसस्यान्तरे मनोः
इन्द्रियाणां प्रतीयेत ऋषयः प्रतिजानते
इन्द्रियाणि तथा देवा मनोस्तस्यान्तरे स्मृताः
सप्तर्षयोंऽतरे ये च तान्निबोधत सत्तमाः
अत्रेयस्त्वग्निरित्येव ज्योतिर्धामा च भार्गवः