तुषितायां समुत्पन्नाः क्रतोः पुत्राः स्वरोचिषः
छन्दजाश्च चतुर्विंशद्देवास्ते वै तदा स्मृताः
अजश्च भगवाश्चैव द्रविणश्य महा बलः
चिकित्वान्विश्रुतो यस्तु चांशो यश्चैव पठ्यते
इत्येते क्रतुपुत्रास्तु तदासन्सोमपायिनः
समञ्जो विश्रुतो यस्तु ह्यजिह्मश्चारिमर्द्दनः
अजेयश्च महाभागो यवीयांश्च महाबलः
इत्येता देवता ह्यासन्मनोः स्वारोचिषान्तरे
तेषामिन्द्रस्तदा ह्यासीद्विपश्चिल्लोकविश्रुतः
भार्गवश्च तधा प्राम ऋषभोंऽङ्गिरसस्तथा
पौलहो ऽथार्वरीवांश्च एते सप्तर्षयस्तथा
बृहदुक्थो नवः सेतुः श्रुतश्चेति नव स्मृताः
पुराणे परिसंख्याता द्वितीयं वै तदन्तरम्
मूलं मन्वन्तरस्यैते तेषां चैवान्वयाः प्रजाः
ऋषयो देवपुत्राश्च इति शास्त्रे विनिश्चयः
एतन्मन्वन्तरं प्रोक्तं समासाच्च न विस्तरात्
न शक्यो विस्तरस्तस्य वक्तुं वर्षशतैरपि
तृतीये त्वथ पर्याये उत्तमस्यान्तरे मनोः
सुधामानश्च ये देवा ये चान्ये वशवर्त्तिनः
सत्यो धृतिर्दमो दान्तः क्षमः क्षामो ध्वनिः शुचिः
इत्येते द्वादश प्रोक्ताः सुधामानस्तु नामभिः
विश्वधा विश्वकर्मा च मानसस्तु विराजसः
अवध्यो ऽवरतिर्देवो वसुर्धिष्ण्यो विभावसुः
रथोर्मिः केतुमाञ्छ्चैव कीर्त्तितास्तु प्रतर्दनाः
सुदानो वसुदानश्च सुमञ्जसविषावुभौ
शिवा ह्येते तु विज्ञेया यज्ञिया द्वादशापराः
दिक्पतिर्वाक्पतिश्चैव विश्वः शंभुस्तथैव च
अश्वश्चैव सदश्वश्च क्षेमानन्दौ तथैव च
इत्येता देवता ह्यासन्नौत्तमस्यान्तरे मनोः
पुत्रास्त्तवङ्गिरसस्ते वै उत्तमस्य प्रजापतेः