ऋषीणां ब्रह्मचर्येण गत्वानृण्यं तु व तदा
शतंवर्षसहस्राणां धर्मे वर्णात्मके स्थिताः
स्थापयित्वाश्रमांश्चैव स्वर्गाय देधिरे मनः
पूर्वदेवास्ततस्ते वै स्थिता धर्मेण कृत्स्नशः
मन्त्रैः सहोर्ध्वं गच्छन्ति महर्लोकमनामयम्
अवेक्षमाणा वशिनस्तिष्ठन्त्या भूतसंप्लवात्
शून्येषु देवस्थानेषु त्रैलोक्ये तेषु सर्वशः
ततस्ते तपसा युक्ताः स्थानान्यापूरयन्ति च
सप्तर्षीणां मनोश्चैव देवानां पितृभिः सह
तेषां संतत्यविच्छेद इहामन्वन्तरक्षयात्
मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम्
अतीतानागतानां वै प्रोक्तं स्वायंभुवेन तु
एवं संतत्यविच्छेदो भवत्याभूतसंप्लवात्
महाजनं चैव जनान्तपश्च चैकान्तगानि प्रभवन्ति सत्ये
स्त्ये स्थिता नित्यतया तु नित्यं प्राप्ते विकारे प्रतिसर्ग काले
ततो ऽभियोगा विषयप्रहाणाद्विशन्ति नारायणमेव देवम्
क्षणं न वै तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः
वायुप्रणीतान्युपलभ्य दृश्याद् दिव्यौजसां व्याससमासयोगैः
सुरेशसप्तर्षिपितृप्रजेशैर्युक्तानि सम्यक् परिवर्त्तनानि
कीर्तिद्युतिख्यातिभिरर्चितानां पुण्यं हि विश्यापनमीश्वराणाम्
जप्यं महापर्वसु चैतदग्र्यं दुःखापशान्तिप्रदमायुषीयम्
ममापि विख्यापयतः समासात्सिद्धिं प्रजेशाः प्रदिशन्तु युक्ताः
विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम्
मन्वन्तराधिपांश्चैव शक्रदेवपुरोगमान्
समासा द्विस्तराच्चैव ब्रुवतो मे निबोधत
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा
सावर्णिश्चैव रौच्यश्च भौत्यो वैवस्वतस्तथा
मनवः पञ्च ये ऽतीता मानसांस्तान्निबोधत
अत ऊर्ध्वं प्रवक्ष्यामि मनाः स्वारोचिषस्य ह
आसन्वै तुषिता देवा मनोः स्वारोचिषे ऽन्तरे