क्षीणे मन्वन्तरे पूर्वे प्रवृत्ते चापरे पुनः
सप्तर्षयो मनुश्चैव कालापेक्षास्तु ये स्थिताः
मन्वन्तरोत्सवस्यार्थे संतत्यर्थे च सर्वदा
द्वन्द्वेषु संप्रवृत्तेषु उत्पन्नास्वौषधीषु च
वार्त्तायां संप्रवृत्तायां धर्मे चैवोपसंस्थिते
अग्रामनगरे चैव वर्णाश्रमविवर्जिते
सप्तर्षयो मनुश्चैव संतानार्थं व्यवस्थिताः
उत्पद्यन्ते हि पूर्वेषां निधनेष्विह पूर्ववत्
सर्पा भूतपिशाचाश्च गन्धर्वा यक्षराक्षसाः
सप्तर्षयो मनुश्चव ह्यादौ मन्वन्तरस्य हि
ऋषीणां ब्रह्मचर्येण गत्वानृण्यं तु व तदा
शतंवर्षसहस्राणां धर्मे वर्णात्मके स्थिताः
स्थापयित्वाश्रमांश्चैव स्वर्गाय देधिरे मनः
पूर्वदेवास्ततस्ते वै स्थिता धर्मेण कृत्स्नशः
मन्त्रैः सहोर्ध्वं गच्छन्ति महर्लोकमनामयम्
अवेक्षमाणा वशिनस्तिष्ठन्त्या भूतसंप्लवात्
शून्येषु देवस्थानेषु त्रैलोक्ये तेषु सर्वशः
ततस्ते तपसा युक्ताः स्थानान्यापूरयन्ति च
सप्तर्षीणां मनोश्चैव देवानां पितृभिः सह
तेषां संतत्यविच्छेद इहामन्वन्तरक्षयात्
मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम्
अतीतानागतानां वै प्रोक्तं स्वायंभुवेन तु
एवं संतत्यविच्छेदो भवत्याभूतसंप्लवात्
महाजनं चैव जनान्तपश्च चैकान्तगानि प्रभवन्ति सत्ये
स्त्ये स्थिता नित्यतया तु नित्यं प्राप्ते विकारे प्रतिसर्ग काले
ततो ऽभियोगा विषयप्रहाणाद्विशन्ति नारायणमेव देवम्
क्षणं न वै तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः
वायुप्रणीतान्युपलभ्य दृश्याद् दिव्यौजसां व्याससमासयोगैः
सुरेशसप्तर्षिपितृप्रजेशैर्युक्तानि सम्यक् परिवर्त्तनानि
कीर्तिद्युतिख्यातिभिरर्चितानां पुण्यं हि विश्यापनमीश्वराणाम्