जनलोकात्सुराः सर्वे दशकल्पान्पुनः पुनः
अवश्यभाविनार्ऽथेन संभध्यन्ते तदा तु ते
निवर्त्तते तदा वृत्तिः सा तेषां दोषदर्शनात्
जनलोकात्तपोलोकं गच्छन्तीहानिवर्त्तकम्
निधनं ब्रह्मलोके वै गतानि ऋषिभिः सह
अनादित्वाच्च कालस्य संख्यानां चैव सर्वशः
पितृभिर्मुनिभिर्देवैः सार्द्धं च ऋषिभिः सह
एतेन क्रमयोगेन कल्पमन्वन्तराणि च
मन्वन्तरान्ते संहारः संहारान्ते च संभवः
न शक्य आनुपूर्व्येण वक्तुं वर्षशतैरपि
मन्वन्तरस्य संख्या तु मानुषेण निबोधत
त्रिंशत्कोट्यस्तु संपूर्णा संख्याताः संख्याया द्विजैः
विंशतिश्च सहस्रामि कालो ऽयं साधिकं विना
वर्षाग्रेणापि दिव्येन प्रवक्ष्याम्युत्तरं मनोः
द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु
पूर्णं युगसहस्रं स्यात्तदहर्ब्रह्मणः स्मृतम्
ब्रह्माणामग्रतः कृत्वा सह देवर्षिदानवैः
स स्रष्टा सर्व भूतानां कल्पादिषु पुनः पुनः
सर्वमन्वन्तराणां हि प्रतिसंधिं निबोधत
कृतत्रेतादिसंयुक्तं चतुर्युगमिति स्मृतम्
मनोरेतमधीकारं प्रोवाच भगवान्प्रभुः
अतीतानागतानां वै वर्त्तिमानेन कीर्त्तितम्
प्रतिसंधिं तु वक्ष्यामि तस्य चैवापरस्य च
अवश्यभाविनार्थेन यथावद्विनिवर्त्तते
सप्तर्षयश्च देवाश्च पितरो मनवस्तथा
क्षीणे ऽधिकारे संविग्ना बुद्ध्वा पर्ययमात्मनः
ततो मन्वन्तरे तस्मिन्प्रक्षीणे देवतास्तु ताः
उत्पद्यन्ते भविष्यन्तो ये वै मन्वन्तरेश्वराः
मन्वन्तरे तु संपूर्णे तद्वदन्ते कलौ युगे
यथा कृतस्य संतानः कलिपूर्वः स्मृतो बुधैः