तृणबिन्दुस्ततस्तस्मात्ततजस्तृणबिन्दुतः
जातूकर्णो भवत्तस्मात्त स्माद्द्वैपायनः स्मृतः
भविष्ये द्वापरे चैव द्वोणिर्द्वैपायने ऽपि च
भविष्यन्ति भविष्येषु शाखाप्रमयनानि तु
तपसा कर्म च प्राप्तं कर्मणा चापि ते यशः
व्याप्तं ब्रह्मामृतं शुक्रं ब्रह्मैवामृतमुच्यते
बृहत्वाद्बृंहणाच्चैव तद्ब्रह्मेत्यभिधीयते
अथर्वऋग्यजुः साम्नि यत्तस्मै ब्रह्मणे नमः
महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः
संप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम्
यत्तदव्यक्तमतं प्रकृतिर्ब्रह्म शाश्वतम्
अविभागस्तथा शुक्रमक्षरं बहुधात्मकम्
कृते पुनः क्रिया नास्ति कुत एवाकृतक्रियाः
श्रोतव्यं वा श्रुतं वापि तथैवासाधु साधु वा
द्रष्टव्यं वाथ श्रोतव्यं घ्रातव्यं वा कथञ्चन
यन्न दर्शितवानेष कस्तदन्वेष्टुमर्हति
यदा यत्क्रियते येन तदा तस्मो ऽभिमन्यते
यदा च क्रियते किञ्चित्केनचिद्वा कथं क्वचित्
विरिक्तं चातिरिक्तं च ज्ञानाज्ञानेप्रियाप्रिये
ऊर्द्ध्वं तिर्य्यगधोभावस्तस्यैवादृष्टकारिणः
प्रत्येकवेद्यंभवति त्रेतास्विह पुनः पुनः
ब्रह्मा चैतानुवाचादौ तस्मिन्वैवस्वते ऽन्तरे
कुर्वन्ति संहिता ह्येते जायमानाः परस्परम्
अतीतेषु व्यतीतानि वर्त्तन्ते पुनः पुनः
युगे युगे तु ताः शाखा व्यस्यन्ते तै पुनः पुनः
तेषां गोत्रेष्विमाः शाखा भवन्ति हि पुनः पुनः
एवमेव तु विज्ञेया अतीतानागतेष्वपि
अतीतेषु व्यतीतानि वर्त्तन्ते सांप्रते ऽन्तरे
पूर्वेण पश्चिमं ज्ञेयं वर्तमानेन चोभयम्
एवं देवाः सपितर ऋषयो मनवश्च वै