सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः
बुद्धाः प्रत्यक्ष धर्माणो गोत्रप्रावर्त्तकाश्च ते
तुल्यैर्व्यवहरन्ति स्म ह्यदुष्टैः कर्महेतुभिः
कुटुंबिनो बुद्धिमन्तो वनान्तरनिवासिनः
वर्णाश्रमव्यवस्थानं क्रियते प्रथमं तु वै
प्रवर्त्तयन्ति ये वर्णानाश्रमांश्चैव सर्वशः
जायमाने पितापुत्रे पुत्रः पितरि चैव हि
अष्टाशीतिसहस्राणि प्रोक्तानि गृहमेधिनाम्
दाराग्निहोत्रिणस्ते वै यै प्रजाहेतवः स्मृताः
अष्टाशीतिसहस्राणि निहिता उत्तरापथे
मन्त्रब्राह्मणकर्त्तारो जायन्ते च युगक्षयात्
कल्पानामार्षविद्यानां नानाशास्त्रकृतश्च ये
वैवस्वते ऽन्तरे तस्मिन्द्वापरेषु पुनः पुनः
सप्तमे द्वापरे व्यमताः स्वयं वेदाः स्वयंभुवा
तृतीये चोशना व्यासश्चतुर्थे च बृहस्पतिः
सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे स्मृतः
एकादशे तु त्रिवर्षा सनद्वाजस्ततः परम्
त्रैय्यारुणिः पञ्चदशे षोडशे तु धनञ्जयः
ऋजीषात्तु भरद्वाजो भरद्वाजात्तु गौतमः
हर्यवनात्परो वेनः स्मृतो वाजश्रवास्ततः
तृणबिन्दुस्ततस्तस्मात्ततजस्तृणबिन्दुतः
जातूकर्णो भवत्तस्मात्त स्माद्द्वैपायनः स्मृतः
भविष्ये द्वापरे चैव द्वोणिर्द्वैपायने ऽपि च
भविष्यन्ति भविष्येषु शाखाप्रमयनानि तु
तपसा कर्म च प्राप्तं कर्मणा चापि ते यशः
व्याप्तं ब्रह्मामृतं शुक्रं ब्रह्मैवामृतमुच्यते
बृहत्वाद्बृंहणाच्चैव तद्ब्रह्मेत्यभिधीयते
अथर्वऋग्यजुः साम्नि यत्तस्मै ब्रह्मणे नमः
महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः
संप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम्