कर्तारशचैव शाखानां भेदहेतूंस्तथैव च
प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे स्मृताः
द्वापरेषु पुनर्भेदाः श्रुतीनां परिकीर्त्तिताः
शिष्चेब्यश्च प्रदत्त्वा तु तपस्तप्तु वन गतः
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः
ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः
काश्यपेषु वसिष्ठेषु तथा भृग्वङ्गिरो ऽत्रिषु
यस्मादृषन्ति ब्रह्माणं ततो ब्रह्मर्षयः स्मृताः
प्रत्यूषस्य च देवस्य कश्यपस्य तथा पुनः
देवार्षी धर्मपुत्रौ तु नरनारायणवुभौ
कुबेरश्चैव पौलस्त्यः प्रत्यूषस्य दलः सुत
ऋषन्ति वेदान्यस्मात्ते तस्माद्देवर्षयः स्मृताः
ये च ऐक्ष्वाकनाभागा ज्ञेया राजर्षयस्तु ते
ब्रह्मलोकप्रतिष्ठास्तु समृता ब्रह्मर्षयो ऽमलाः
इन्द्रलोकप्रतिष्ठास्तु सर्वे राजर्षयो मताः
ये च ब्रह्मर्षयः प्रोक्ता दिव्या देवर्षयश्च ये
भूतं भव्यं भवज्ज्ञानं सत्याभि व्यात्दृतं तथा
तपसेह प्रसिद्धा ये गर्भे यैश्च प्रवेदितम्
एते राजर्षयो युक्ता देवाद्विजनृपाश्च ये
सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः
बुद्धाः प्रत्यक्ष धर्माणो गोत्रप्रावर्त्तकाश्च ते
तुल्यैर्व्यवहरन्ति स्म ह्यदुष्टैः कर्महेतुभिः
कुटुंबिनो बुद्धिमन्तो वनान्तरनिवासिनः
वर्णाश्रमव्यवस्थानं क्रियते प्रथमं तु वै
प्रवर्त्तयन्ति ये वर्णानाश्रमांश्चैव सर्वशः
जायमाने पितापुत्रे पुत्रः पितरि चैव हि
अष्टाशीतिसहस्राणि प्रोक्तानि गृहमेधिनाम्
दाराग्निहोत्रिणस्ते वै यै प्रजाहेतवः स्मृताः
अष्टाशीतिसहस्राणि निहिता उत्तरापथे