आत्रेयः सुमतिर्धीमान्काश्यपो ह्यकृतव्रणः
सावर्णिः सोमदत्तिश्च सुशर्मा शांशपायनः
त्रिभिस्तत्र कृतास्तिस्रः संहिताः पुनरेव हि
मामिका तु चतुर्थी स्याच्चतस्रो मूलसंहिताः
पाठान्तरे वृथाभूता वेदशाखा यथा तथा
लौमहर्षणिका मूला ततः काश्यपिका परा
शांशपायनिका चान्या नोदनार्थविभूषिता
एताः पञ्चदशान्याश्च दशान्या दशभिस्तथा
अष्टौ सामसहस्राणि सामानि च चतुर्द्दश
द्वादशैव सहस्राणि च्छन्द आध्वर्यवं स्मृतम्
सग्राम्यारण्यकं तस्मात्समन्त्रकरणं तथा
ग्राम्यारण्यं समन्त्रं तदृग्ब्राह्मणयजुः स्मृतम्
तथैव तैत्तिरीयाणां परक्षुद्रा इति स्मृतम्
ऋग्गमः परिसंख्यातो ब्राह्मणं तु चतुर्गुणम्
एतत्प्रमाणं यजुषामृचां च सशुक्रियं सखिलं याज्ञवल्क्यम्
षट्सहस्रमृचामुक्तमृचः षड्विंशतिं पुनः
एकादशसहस्राणि ऋचश्चान्या दशोत्तराः
सहस्रमेकं मन्त्राणामृचामुक्तं प्रमाणतः
ऋचामथर्वणां पञ्चसहस्राणीति निश्चयः
एतदङ्गिरसां प्रोक्तं तेषामारण्यकं पुनः
कर्तारशचैव शाखानां भेदहेतूंस्तथैव च
प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे स्मृताः
द्वापरेषु पुनर्भेदाः श्रुतीनां परिकीर्त्तिताः
शिष्चेब्यश्च प्रदत्त्वा तु तपस्तप्तु वन गतः
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः
ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः
काश्यपेषु वसिष्ठेषु तथा भृग्वङ्गिरो ऽत्रिषु
यस्मादृषन्ति ब्रह्माणं ततो ब्रह्मर्षयः स्मृताः
प्रत्यूषस्य च देवस्य कश्यपस्य तथा पुनः