इत्येते चरकाः प्रोक्ताः संहिता वादिनो द्विजाः
किं चीर्णं कस्य वा हेतोश्चरकत्वं हि भेजिरे
मेरुपृष्ठं समासाद्य तैस्तदा त्विति मन्त्रितम्
स कुर्याद्ब्रह्महत्यां वै समयो नः प्रकीर्तितः
प्रययुः सप्तरात्रेण यत्र संधिः कृतो ऽभवत्
शिष्यानथ समानीय स वैशंपायनो ऽब्रवीत्
सर्वे यूयं समागम्य ब्रूत कामं हितं वचः
बलेनोत्थापयिष्यामि तपसा स्वेन भावितः
उवाच यत्त्वयाधीतं सर्वं प्रत्यर्पयस्व मे
रुधिरेण तथाक्तानि च्छर्दित्वा ब्रह्मवित्तमाः
सूर्ये ब्रह्म यदुत्पन्नं तं गत्वा प्रतितिष्ठति
तानि तस्मै ददौ तुष्टः सूर्यो वै ब्रह्मरातये
यजूंष्यधीयते तानि ब्राह्मणा येन केनचित्
ब्रह्महत्या तु यैश्चीर्णा चरणाच्चरकाः स्मृताः
इत्येते चरकाः प्रोक्ता वाजिनस्तु निबोधत
मध्यन्दिनस्तु सापत्यो वैधेयश्चाद्धबौद्धकौ
आवटी च तथा पुण्ड्रो वैणोयः सपराशरः
शतमेकाधिकं ज्ञेयं यजुषां ये विकल्पकाः
सुमन्तुश्चापि सुत्वानं पुत्रमध्यापयत्पुनः
स सहस्रमधीत्याशु सुकर्माप्यथ संहिताः
अनध्यायेष्वधीयानांस्तञ्जघान शतक्रतुः
क्रुद्धं दृष्ट्वा ततः शक्रोवरं सो ऽथ पुनर्ददौ
अधीयातां महाप्राज्ञौ सहस्रं संहिता उभौ
इत्युक्त्वा वासवः श्रीमान्सुकर्माणं यशस्विनम्
तस्य शिष्यो ऽभवद्धीमान् पौष्यञ्जिर्द्विजसत्तमाः
अध्यापयत पौष्याञ्जिः सहस्रार्द्धं तुसंहिताः
सत्त्वानि पञ्च कौशिल्यः संहिताना मधीतवान्
पौष्यञ्जि शिष्याश्चत्वारस्तेषां भेदान्निबोधत
सकोतिपुत्रः सुसहाः सुनामा चैतान्भेदान्वित्तलौगाक्षिणस्तु
त्रयस्तु कुशुमेः शिष्या औरसः स पराशरः