ब्रूहीदानीं मयोद्दिष्टान्कामप्रश्नान्यथार्थतः
साग्रं प्रश्नसहस्रं तु शाकल्यः सो ऽकरोत्तदा
शाकल्यस्त्वास निर्वादो याज्ञवल्क्यस्तमब्रवीत्
पणप्राप्यस्य वादस्य ब्रुवतोर्मृत्युरत्र वै
अध्यात्मस्य गतिं मुख्यां ध्यानमार्गमथापि वा
शाकल्यस्तमविज्ञाय तथा मृत्युमवाप्तवान्
एवं विवादः सुमहानासीत्तेषां धनार्थिनाम्
जगाम वै गृहं स्वच्छं शिष्यैः परिवृतो वशी
चकार संहिताः पञ्च बुद्धिमान्वेदवित्तमः
खलीयान्सुतपा वत्सः शैशिरेयश्च पञ्चमः
निरुक्तं च पुनश्चक्रे चतुर्थं द्विजसत्तमः
धीमाञ्छ तबलाकश्च गजश्चैव द्विजोत्तमाः
त्रयस्तस्याभवञ्च्छिष्या महात्मानो गुणान्विताः
तृतीयश्चार्जवस्ते च तपसा शंसितव्रताः
इत्येते बहूवृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः
षडशीतिस्तु तेनोक्ताः संहिता यजुषां शुभाः
एकस्तत्र परित्यक्तो या५वल्क्यो महातपाः
सर्वेषामेव तेषां वै त्रिधा भेदाः प्रकीर्त्तिताः
उदीच्या मध्यदेश्याश्च प्राच्यश्चैव पृथग्विधाः
मध्यदेशप्रतिष्ठाता चासुरिः प्रथमः स्मृतः
इत्येते चरकाः प्रोक्ताः संहिता वादिनो द्विजाः
किं चीर्णं कस्य वा हेतोश्चरकत्वं हि भेजिरे
मेरुपृष्ठं समासाद्य तैस्तदा त्विति मन्त्रितम्
स कुर्याद्ब्रह्महत्यां वै समयो नः प्रकीर्तितः
प्रययुः सप्तरात्रेण यत्र संधिः कृतो ऽभवत्
शिष्यानथ समानीय स वैशंपायनो ऽब्रवीत्
सर्वे यूयं समागम्य ब्रूत कामं हितं वचः
बलेनोत्थापयिष्यामि तपसा स्वेन भावितः
उवाच यत्त्वयाधीतं सर्वं प्रत्यर्पयस्व मे
रुधिरेण तथाक्तानि च्छर्दित्वा ब्रह्मवित्तमाः