जनकस्य वचः श्रुत्वा ऋषयस्ते श्रुतिक्षमाः
आह्वयाञ्चक्रिरे ऽन्योन्यं वेदज्ञानमदोल्बणान्
ममैतन्न तवेत्यन्यो ब्रूहि वा किं विकत्थसे
अथान्यस्तत्रवै विद्वान्ब्रह्मणस्तु सुतः कविः
ब्रह्मणोंऽशसमुत्पन्नो वाक्यं प्रोवाच सुस्वरम्
नयस्व च गृहंवत्स ममैतन्नात्र संशयः
यो वा न प्रीयते विद्वान्समाह्वयतु माचिरम्
तानुवाच ततः स्वस्थो याज्ञवल्क्यो हसन्निव
वदामहे यथाशक्ति जिज्ञासंतः परस्परम्
सहस्रधा शुभैरर्थैः सुक्ष्मदर्शनसंभवैः
संत्युत्तमगुणैर्युक्ता नृपस्यापि परीक्षकाः
ऋषयस्त्वेकतः सर्वे याज्ञवल्क्यस्तथैकतः
एकैकशस्ततः पृष्टा नैवोत्तरमथाब्रुवन्
शाकल्यमिति होवाच वादकर्त्तारमञ्जसा
पणस्तु यजमानेन बद्धो नीतो यथा धृतः
प्रोवाच याज्ञवल्क्यं सपुरुषं मुनिसन्निधौ
विद्याधनं महासारं स्वयङ्ग्राहं जिघृक्षसि
ब्रह्मिष्ठानां बलं विद्धि विद्यातत्त्वार्थदर्शनम्
कामप्रर्श्नधना विप्राः कामप्रश्नं वदामहे
एतच्छ्रुत्वा वचस्तस्य शाकल्यः क्रोधमूर्च्छितः
ब्रूहीदानीं मयोद्दिष्टान्कामप्रश्नान्यथार्थतः
साग्रं प्रश्नसहस्रं तु शाकल्यः सो ऽकरोत्तदा
शाकल्यस्त्वास निर्वादो याज्ञवल्क्यस्तमब्रवीत्
पणप्राप्यस्य वादस्य ब्रुवतोर्मृत्युरत्र वै
अध्यात्मस्य गतिं मुख्यां ध्यानमार्गमथापि वा
शाकल्यस्तमविज्ञाय तथा मृत्युमवाप्तवान्
एवं विवादः सुमहानासीत्तेषां धनार्थिनाम्
जगाम वै गृहं स्वच्छं शिष्यैः परिवृतो वशी
चकार संहिताः पञ्च बुद्धिमान्वेदवित्तमः
खलीयान्सुतपा वत्सः शैशिरेयश्च पञ्चमः