सत्यश्रियाश्च विद्वांसः शास्त्रग्रहणतत्पराः
बाष्कलिश्च भरद्वाज इति शाखाप्रवर्त्तकाः
जनकस्य स यज्ञे वै विनाशामगमद्द्विजाः
जनकस्याश्वमेधे तु कथ वादाभ्यजायत
एतत्सर्वं यथा वृत्तमाचक्ष्त्र विदितं तव
ऋषीणां हि सहस्राणि तत्राजग्मुरनेकशः
आगतान्ब्राह्मणान्दृष्ट्वा जिज्ञासास्याभवत्ततः
इति निश्चित्य मनसा बुद्धिं चक्रे जनाधिपः
ग्रामान्रत्नानि दासीस्छ मुनीन्प्राह नराधिपः
यदेतदाहृतं वित्तं यो वा श्रेष्ठतमो भवेत्
जनकस्य वचः श्रुत्वा ऋषयस्ते श्रुतिक्षमाः
आह्वयाञ्चक्रिरे ऽन्योन्यं वेदज्ञानमदोल्बणान्
ममैतन्न तवेत्यन्यो ब्रूहि वा किं विकत्थसे
अथान्यस्तत्रवै विद्वान्ब्रह्मणस्तु सुतः कविः
ब्रह्मणोंऽशसमुत्पन्नो वाक्यं प्रोवाच सुस्वरम्
नयस्व च गृहंवत्स ममैतन्नात्र संशयः
यो वा न प्रीयते विद्वान्समाह्वयतु माचिरम्
तानुवाच ततः स्वस्थो याज्ञवल्क्यो हसन्निव
वदामहे यथाशक्ति जिज्ञासंतः परस्परम्
सहस्रधा शुभैरर्थैः सुक्ष्मदर्शनसंभवैः
संत्युत्तमगुणैर्युक्ता नृपस्यापि परीक्षकाः
ऋषयस्त्वेकतः सर्वे याज्ञवल्क्यस्तथैकतः
एकैकशस्ततः पृष्टा नैवोत्तरमथाब्रुवन्
शाकल्यमिति होवाच वादकर्त्तारमञ्जसा
पणस्तु यजमानेन बद्धो नीतो यथा धृतः
प्रोवाच याज्ञवल्क्यं सपुरुषं मुनिसन्निधौ
विद्याधनं महासारं स्वयङ्ग्राहं जिघृक्षसि
ब्रह्मिष्ठानां बलं विद्धि विद्यातत्त्वार्थदर्शनम्
कामप्रर्श्नधना विप्राः कामप्रश्नं वदामहे
एतच्छ्रुत्वा वचस्तस्य शाकल्यः क्रोधमूर्च्छितः