विश्वकर्मा विभजते कल्पादिषु पुनः पुनः
भूराद्यांश्चतुरो लोकान्पुनःपुनरकल्पयत्
ब्रह्मा स्वयंभूर्भगवाम् सिसृक्षुर्विविधाः प्रजाः
तस्याभिध्यायतः सर्गं तदा वै बुद्धिपूर्वकम्
तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः
पञ्चधावस्थितः सर्गो ध्यायत साभिमानिनः
बहिरन्तश्चाप्रकाशस्तथानिःसंज्ञ एव च
तस्माच्च संवृतात्मानो नगा मुख्याः प्रकीर्तिताः
अप्रती तमनाः सोथ तदोत्पत्तिममन्यत
यस्मात्तिर्यग्विवर्त्तेत तिर्यकस्रोतस्ततः स्मृतः
उत्पाद्यग्राहिमश्चैव ते ऽज्ञाने ज्ञानमानिनः
एकादशन्द्रियविधा नवधात्मादयस्तथा
अन्तः प्रकाशास्ते सर्वे आवृताश्च बहिः पुनः
तिर्यक् स्रोतस उच्यन्ते वश्यात्मानस्त्रिसंज्ञकाः
अभिप्रायमथोद्भूतं दृष्ट्वा सर्गं तथाविधम्
ऊर्द्धस्रोतस्तृतीयस्तु तद्वै चोर्द्धं व्यवस्थितम्
ताः सुखं प्रीतिबहुला बहिरन्तश्च वावृताः
नवधातादयस्ते वै तुष्टात्मानो बुधाः स्मृताः
ऊर्द्धस्रोतःसु सृष्टेषु देवेषु स तदा प्रभुः
सर्गमन्यं सिमृक्षुस्तं साधकं पुनरीश्वरः
प्रादुर्बभौ भौतसर्गः सोर्वाक् स्रोतस्तु साधकः
ते च प्रकाशबहुलास्तमस्पृष्टरजोधिकाः
प्रकाशा बहिरन्तश्च मनुष्याः साधकाश्च ते
सिद्धात्मानो मनुष्यास्ते गन्धर्वैः सह धर्मिणः
विपर्ययेण शक्त्या च सिद्ध मुख्यास्तथैव च
भूतादिकानां सत्त्वानां षष्ठः सर्गः स उच्यते
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः
वैकारिकस्तृतीयस्तु चैद्रियः सर्ग उच्यते
मुख्यसर्गश्च तुर्थस्तु मुख्या वै स्थावराः स्मृताः
तथोर्द्धस्रोतसां सर्गः षष्ठो देवत उच्यते