कथं वेदाः पुनर्व्यस्तास्तन्नो ब्रूहि महामते
ब्रह्मा मनुमुवाचेदं रक्षवेदं महामते
संवृता युगदोषेण सर्वे चैव यथाक्रमम्
दशसाहस्रभागेन ह्यवशिष्टं कृतोदितम्
वेदक्रिया हि कार्याः स्युर्माभूद्वेदविनाशनम्
यज्ञे नष्टे वेदनाशस्ततः सर्वं प्रणश्यति
पुनर्दशगुणः कृष्णो यज्ञो वै सर्वकामधुक्
वेदमेकं चतुष्पादं चतुर्द्धा व्यभजत्प्रभुः
तदहं वर्त्तमानेन युष्माकं वेदकल्पनम्
प्रत्यक्षेण वरोक्षंवै तन्निबोधत सत्तमाः
द्वैपायन इति ख्यातो विष्णोरंशः सनातनः
अथ शिष्यान्सजग्राह चतुरो वेदकारणात्
चतुर्थं पैलमेतेषां पञ्चमं लोमहर्षणम्
यजुर्वेदप्रवक्तारं वैशंपायनमेव च
तथैवाथर् ववेदस्य सुमन्तुमृषिसत्तमम्
मां चैव प्रतिजग्राह भगवानीश्वरः प्रभुः
चातुर्हेत्रमभूत्तस्मिंस्तेन यज्ञमकल्पयत्
औद्गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः
होतृकं कल्पयत्तेन यजुर्वेदं जगत्पतिः
रा५स्त्वथर्ववेदेन सर्वकर्माण्यकारयत्
पुरामसंहितां चक्रे पुराणार्थविशारदः
यजनात्स यजुर्वेद इति शास्त्रविनिश्चयः
शतेनोद्धतवीर्यस्तु ऋत्विग्भिर्वेदपारगैः
ऋचो गृहीत्वा पैलस्तु व्यभजत्तु द्विधा पुनः
इन्द्रप्रमत्तये चैकां द्वितीयां बाष्कलाय च
शिष्यानध्यापया मास शुश्रुषाभिरतान्हितान्
पाराशरीं तृतीयां तु या५वल्क्यामथापराम्
अध्यापयन्महाभागं माण्डूकेयं यशस्विनम्
सत्यस्रवाः सत्यहितं पुत्रमध्यापयद्विभुः
सत्यश्रियं महात्मानं सत्य धर्मपरायणम्