पञ्चविन्ध्य इति प्रोक्तं ह्रीङ्कारः प्रणवादृते
आशास्तिस्तु प्रसंख्याता विलापः परिदेवना
एतत्तु सर्वविद्यानां विहितं मन्त्रलक्षणम्
मूर्तिर्निन्दा प्रशंसा चाक्रोशस्तोषस्तथैव च
मन्त्रभेदांश्च वक्ष्यामि चतुर्विशतिलक्षणान्
अभिशापो विशापश्च प्रश्नः प्रतिवचस्तथा
वियोगा ह्यभियोगाश्च कथा संस्था वरश्च वै
विलापश्चेति मन्त्राणां चतुर्विंशतिरुद्धृताः
हेतु र्निर्वचनं निन्दा प्रशस्तिः संशयो निधिः
उपमा च दशैते वै विधयो ब्राह्मणस्य तु
हेतुर्हन्तेः स्मृतो धातोर्यन्निहन्त्युदितं परैः
तथा निर्वचनं ब्रूयाद्वाक्यार्थस्यावधारणम्
प्रपूर्वाच्छंसतेर्धातोः प्रशंसागुणवत्तया
इदमेवं विधातव्यमित्ययं विधिरुच्यते
यो ह्यत्यन्तपरोक्षार्थः स पुराकल्प उच्यते
मन्त्रब्राह्मणकल्पैश्च निगमैः शुद्धविस्तरैः
यथा हीदं तथा तद्वै इदं चैव तथैव तत्
इत्येतद्ब्रह्मणस्यादौ विहितं रक्षणं बुधैः
मन्त्राणां कल्पना चैव विधिदृष्टिषु कर्मसु
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः
कथं वेदाः पुनर्व्यस्तास्तन्नो ब्रूहि महामते
ब्रह्मा मनुमुवाचेदं रक्षवेदं महामते
संवृता युगदोषेण सर्वे चैव यथाक्रमम्
दशसाहस्रभागेन ह्यवशिष्टं कृतोदितम्
वेदक्रिया हि कार्याः स्युर्माभूद्वेदविनाशनम्
यज्ञे नष्टे वेदनाशस्ततः सर्वं प्रणश्यति
पुनर्दशगुणः कृष्णो यज्ञो वै सर्वकामधुक्
वेदमेकं चतुष्पादं चतुर्द्धा व्यभजत्प्रभुः
तदहं वर्त्तमानेन युष्माकं वेदकल्पनम्
प्रत्यक्षेण वरोक्षंवै तन्निबोधत सत्तमाः