मिश्रा इति समाख्याताः प्रभावादृषितां गाताः
भूतभव्यभवज्ज्ञान जन्मदुःखचिकित्सनम्
धर्मशास्त्रप्रणेतारो महिम्ना सर्वगाश्च वै
बृहस्पतिश्च शुक्रश्च व्यासः सारस्वतस्तथा
यस्मादवारजाः संतः पूर्वेभ्यो मेधयाधिकाः
यस्मिन्कालो न चं वयः प्रमाणमृषिभावने
यस्माद्बुद्ध्या च वर्षीयान्बलो ऽपि श्रुतवानृषिः
विनियुक्तावसानां तु तामृचं परिचक्षते
अतियुक्तावसानं च तद्यजुर्वै प्रचक्षते
पञ्चमः प्रतिहोत्रश्च षष्ठमाहुरुपद्रवम्
पञ्चविन्ध्य इति प्रोक्तं ह्रीङ्कारः प्रणवादृते
आशास्तिस्तु प्रसंख्याता विलापः परिदेवना
एतत्तु सर्वविद्यानां विहितं मन्त्रलक्षणम्
मूर्तिर्निन्दा प्रशंसा चाक्रोशस्तोषस्तथैव च
मन्त्रभेदांश्च वक्ष्यामि चतुर्विशतिलक्षणान्
अभिशापो विशापश्च प्रश्नः प्रतिवचस्तथा
वियोगा ह्यभियोगाश्च कथा संस्था वरश्च वै
विलापश्चेति मन्त्राणां चतुर्विंशतिरुद्धृताः
हेतु र्निर्वचनं निन्दा प्रशस्तिः संशयो निधिः
उपमा च दशैते वै विधयो ब्राह्मणस्य तु
हेतुर्हन्तेः स्मृतो धातोर्यन्निहन्त्युदितं परैः
तथा निर्वचनं ब्रूयाद्वाक्यार्थस्यावधारणम्
प्रपूर्वाच्छंसतेर्धातोः प्रशंसागुणवत्तया
इदमेवं विधातव्यमित्ययं विधिरुच्यते
यो ह्यत्यन्तपरोक्षार्थः स पुराकल्प उच्यते
मन्त्रब्राह्मणकल्पैश्च निगमैः शुद्धविस्तरैः
यथा हीदं तथा तद्वै इदं चैव तथैव तत्
इत्येतद्ब्रह्मणस्यादौ विहितं रक्षणं बुधैः
मन्त्राणां कल्पना चैव विधिदृष्टिषु कर्मसु
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः