भलन्दनश्च वत्सश्च संकीलश्चैव ते त्रयः
ब्राह्यणाः क्षत्रिया वैश्या ऋषिपुत्रान्निबोधत
ब्राह्यणानां प्रवक्तारो नामतश्च निबोधत
बह्वृचो भार्गवः पैलः सांकृत्यो जाजलिस्तथा
उपमन्युरिन्द्रप्रमतिर्माडूकिः शाकलिश्च सः
पन्नगाः पक्षगन्ताश्च षडशीतिः श्रुतर्षयः
वैशंपायनलौहित्यौ कण्ठकालावशावधः
तेषां शिष्याः प्रशिष्याश्च षडशीति श्रुतर्षयः
चैमिनिः सभरद्वाजः काव्यः पौष्यञ्जिरेव च
लङ्गली शालिहोत्रश्च शक्तिराजश्च भार्गवः
षट्चत्वारिंशदन्ये वै तेषां शिष्याः श्रुतर्षयः
लोभालोभश्च धर्मात्मा तथा ब्रह्म बलश्च सः
इत्येते नवतिर्ज्ञेया होत्रवद्ब्रह्मचारिणः
चलूभिः सुमतिश्चैव तथा देववरश्च यः
तथाप्रीतः कृशाश्वश्व सुमूलिर्बाष्कलिस्तथा
वैयासकिः शुको विद्वांल्लौकिर्भूरिश्रवास्तथा
आरण्या इलकश्चैव उपमन्युर्विदस्तथा
प्रजादर्पः कहोडश्च याज्ञवल्क्यो ऽथ शौनकः
अदितिर्देवमाता च जलापा चैव मानवी
मुद्गला चातुजीवैव तारा चैव यशस्विनी
लोपामुद्रा च धर्मज्ञा या च कोशीतिका स्मृता
इत्येता मुख्यशः प्रोक्ता मया च ऋषिपुत्रकाः
ईश्वरा मन्त्रवक्तार ऋषयो ह्यृषिकास्तथा
ईश्वराणामृषीणां च ऋषिकाणां सहात्मजैः
तत्राज्ञायुक्तमद्वैतं दीप्तं गंभीरशब्दवत्
सर्वभूतान्यभूतं च परिदानं च यद्भवेत्
यत्किञ्चिन्मन्त्रसंयुक्तं तत्र नामविभक्तिभिः
नैगमैर्विविधैः शब्दैर्निपातैर्बहुलं च यत्
अविस्पष्टपदं यच्च यच्च स्याद्बहुसंशयम्
हेतुदृष्टान्त बहुलं चित्रशब्दमपार्थकम्