प्राग्वंशकायो द्युतिमान् नानादीक्षाभिरन्वितः
उपाकर्मरुचिश्चैव प्रवर्ग्यावर्तभूषणः
मायापत्नीसहायो वै गिरिशृङ्गमिवोच्छ्रयः
आज्यगन्धः स्रुवस्तुण्डः सामघोषस्वनो महान्
प्रायश्चित्तनखो घोरः पशुजानुर्महामखः
वाद्यन्तरात्मसत्रस्य नास्मिकासो मशोणितः
अग्निसंछादितां भूमिं समामिच्छन्प्रजापतिम्
पृथक् तास्तु समीकृत्य पृथिव्यां सो ऽचिनोद्गिरीन्
देनाग्निना विलीनास्ते पर्वता भुवि सर्वशः
निषिक्ता यत्रयत्रासंस्तत्रतत्राचलो ऽभवत्
विश्वकर्मा विभजते कल्पादिषु पुनः पुनः
भूराद्यांश्चतुरो लोकान्पुनःपुनरकल्पयत्
ब्रह्मा स्वयंभूर्भगवाम् सिसृक्षुर्विविधाः प्रजाः
तस्याभिध्यायतः सर्गं तदा वै बुद्धिपूर्वकम्
तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः
पञ्चधावस्थितः सर्गो ध्यायत साभिमानिनः
बहिरन्तश्चाप्रकाशस्तथानिःसंज्ञ एव च
तस्माच्च संवृतात्मानो नगा मुख्याः प्रकीर्तिताः
अप्रती तमनाः सोथ तदोत्पत्तिममन्यत
यस्मात्तिर्यग्विवर्त्तेत तिर्यकस्रोतस्ततः स्मृतः
उत्पाद्यग्राहिमश्चैव ते ऽज्ञाने ज्ञानमानिनः
एकादशन्द्रियविधा नवधात्मादयस्तथा
अन्तः प्रकाशास्ते सर्वे आवृताश्च बहिः पुनः
तिर्यक् स्रोतस उच्यन्ते वश्यात्मानस्त्रिसंज्ञकाः
अभिप्रायमथोद्भूतं दृष्ट्वा सर्गं तथाविधम्
ऊर्द्धस्रोतस्तृतीयस्तु तद्वै चोर्द्धं व्यवस्थितम्
ताः सुखं प्रीतिबहुला बहिरन्तश्च वावृताः
नवधातादयस्ते वै तुष्टात्मानो बुधाः स्मृताः
ऊर्द्धस्रोतःसु सृष्टेषु देवेषु स तदा प्रभुः
सर्गमन्यं सिमृक्षुस्तं साधकं पुनरीश्वरः