ऋषिपुत्रा ऋषीकास्तु मैथुनाद्गर्भसंभवाः
सप्तषर्यस्त तस्ते च परसत्यस्य दर्शनाः
ऋषन्ति ते ऋतं यस्माद्विशेषांश्चैव तत्त्वतः
अव्यक्तात्मा महानात्माहङ्कारात्मा तथैव च
इत्येता ऋषिजातीस्ता नामभिः पञ्च वै शृणु
मनुर्दक्षो वसिष्टश्च पुलस्त्यश्चेति ते दश
परत्वेनर्षयो यस्मात्स्मृतास्तस्मान्महर्षयः
काव्यो बृहस्पतिश्चैव कश्यपश्व्यवनस्तथा
कर्दमो विश्रवाः शक्तिर्वालखिल्यास्तथार्वतः
ऋषिपुत्रानृ षीकांस्तु गर्भोत्पन्नान्निबोधत
ऋषिदीर्घतमाश्चैव बृहदुक्थः शरद्वतः
दधीचः शंशपाश्चैव राजा वैश्रवणस्तथा
ईश्वरा ऋषयश्चैव ऋषिकाश्चैव ते स्मृताः
भृगुः काव्यः प्रचेताश्च ऋचीको ह्यात्मवानपि
आर्ष्टिषेणो युधाजिच्च वीतहव्यसुवर्चसौ
एकोनविशतिर्ह्येतेभृगवो मन्त्रवादितः
ऋतवाकस्तथा गर्गः शिनिः संकृतिरेव च
युवनाश्वः पौरकुत्सस्त्रसद्दस्युश्च दस्युमान्
वृषादर्भो विरूपाश्वः कण्वश्चैवाथ मुद्गलः
अयास्यश्चक्रवर्त्ती चवामदेवस्तथैव च
कक्षीवांश्च त्रयस्त्रिंशत्स्मृता ह्याङ्गिरसा वराः
काश्यपश्चैव वत्सारो नैध्रुवो रैभ्य एव च
अत्रिरर्वसनश्चैव श्यावाश्वश्च गविष्ठिरः
इत्येते चा त्रयः प्रोक्ता मन्त्रकारा महर्षयः
चतुर्थ इन्द्रप्रमतिः पञ्चमश्च भरद्वसुः
इति सप्त वशिष्ठाश्च विज्ञेया ब्रह्मवादिनः
तथा विद्वान्मधुच्छन्दा ऋषिश्चान्यो ऽघमर्षणः
देवश्रवास्तथा रेणुः पूरणो ऽथ धनञ्जयः
अगस्त्यो ऽयो दृढायुश्च विध्मवाहस्तथैव च
मनुर्वैवस्वतश्चैव एलो राजा पुरूखाः