अत्र वो वर्णयिष्यामि विधिं मन्वन्तरस्य यः
प्रतिमन्वन्तरे चैव श्रुतिरन्या विधीयते
आभूतसंप्लवस्यापि वर्ज्यैकं शतरुद्रियम्
द्रव्यस्तोत्रं गुणस्तोत्रं फलस्तोत्रं तथैव च
मन्वन्तरेषु सर्वेषु यथा देवा भवन्ति ये
एवं मन्त्रगणानां तु समुत्पत्तिश्चतुर्विधा
ऋषीणां तप्यतामुग्रं तपः परमदुष्करम्
असंतोषाद्भया द्दुःखात्सुखाच्छोकाच्च पञ्चधा
ऋषीणां यदृषित्वं हि तद्वक्ष्यामीह लक्षणैः
अतस्त्वृषीणां वक्ष्यामि तत्र ह्यार्षसमुद्भवम्
अविभागे तु वेदानामनिर्देश्ये तमोमये
चेतनाबुद्धिपूर्वं तु चेतनेन प्रवर्त्तते
चेतनाधिष्ठितं सत्त्वं प्रवर्त्तति गुणात्मकम्
विषयो विषयित्वाच्च अर्थेर्ऽथत्वात्तथैव च
संसिध्यन्ति तदा व्यक्ताः क्रमेण महदादयः
भूतभेदाश्च भूतेभ्यो जज्ञिरे स्म परस्परम्
यथोल्मुकात्तु त्रुटयः एककालाद्भवन्ति हि
यथान्धकारे खद्योतः सहसा संप्रदृश्यते
स माहन्सशरीरस्तु यत्रैवायमवर्त्तत
महांस्तु तमसः पारे वैलक्षण्याद्विभाव्यते
बुद्धिर्विवर्त्तमानस्य प्रादुर्भूता चतुर्विधा
सांसिद्धिकान्यथैतानि विज्ञेयानि नरस्य वै
अनुशेते यतः सर्वान्क्षेत्रज्ञानमथापि वा
यस्माद्वुद्ध्यानुशेते च तस्माद्वोधात्मकः स वै
एवं विवृत्तः क्षेत्रज्ञः क्षेत्रज्ञानाभिसंहितः
परं ह्यर्षयते यस्मात्परमर्षित्वमस्य तत्
यस्मादेव स्वयं भूतस्तस्माच्चाप्यृषिता स्मृता
यस्मादुत्पद्यमानैस्तैर्महान्परिगतः परः
तस्मान्महर्षयः प्रोक्ता बुद्धेः परम दर्शिना
अहङ्कारं तपश्चैव ऋषन्ति ऋषितां गताः