दानं सत्यं तपो ज्ञानं विद्येज्या व्रजनं दया
शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयस्तु वै
विज्ञेयः श्रवणाच्छ्रौतः स्मरणात्स्मार्त्त उच्यते
प्रत्यङ्गानि च वक्ष्यामि धर्मस्येह तु लक्षणम्
यथा भूतप्रवादस्तु इत्येतत्सत्यलक्षणम्
इत्येतत्तपसो रूपं सुघोरं सुदुरा सदम्
ऋत्विजां दक्षिणानां च संयोगो यज्ञ उच्यते
प्रवर्त्तन्ते समा दृष्टिः कृत्स्नाप्येषा दया स्मृता
वाङ्मनःकर्मभिर्वेत्ति तितिक्षैषा क्षमा स्मृता
परस्वानामनादानमलोभ इति कीर्त्यते
निवृत्तिर्ब्रह्मचर्यं तदच्छिद्रं तप उच्यते
मिथ्या न संप्रवर्त्तन्ते शामस्यैतत्तु लक्षमम्
न क्रुद्ध्येत प्रतिहतः स जितात्मा विभाव्यते
तत्तद्गुणवते देयमित्येतद्दानलक्षणम्
तत्र नैश्रेयसं ज्येष्ठं कनिष्ठं स्वार्थसिद्धये
श्रुतिस्मृतिभ्यां विहितो धर्मो वर्माश्रमात्मकः
अप्रद्वेषोह्यनि ष्टेषु तथेष्टस्याभिनन्दनम्
संन्यासः कर्मणां न्यासः कृतानामकृतैः सह
व्यक्ता ये विशेषास्ते विकारे ऽस्मिन्नचेतने
प्रत्यङ्गानां तु धर्मस्य त्वित्येतल्लक्षणं स्मृतम्
अत्र वो वर्णयिष्यामि विधिं मन्वन्तरस्य यः
प्रतिमन्वन्तरे चैव श्रुतिरन्या विधीयते
आभूतसंप्लवस्यापि वर्ज्यैकं शतरुद्रियम्
द्रव्यस्तोत्रं गुणस्तोत्रं फलस्तोत्रं तथैव च
मन्वन्तरेषु सर्वेषु यथा देवा भवन्ति ये
एवं मन्त्रगणानां तु समुत्पत्तिश्चतुर्विधा
ऋषीणां तप्यतामुग्रं तपः परमदुष्करम्
असंतोषाद्भया द्दुःखात्सुखाच्छोकाच्च पञ्चधा
ऋषीणां यदृषित्वं हि तद्वक्ष्यामीह लक्षणैः
अतस्त्वृषीणां वक्ष्यामि तत्र ह्यार्षसमुद्भवम्