षट्सप्तत्यङ्गुलोत्सेधः पशूनां ककुदस्तु वै
अङ्गुलानां सहस्रं तु चत्वारिंशाङ्गुलैर्विना
मानुषस्य शरीरस्य सन्निवेशस्तु यादृशः
बुद्ध्यातिशययुक्तश्च देवानां काय उच्यते
इत्येते वै परिक्रान्ता भावा ये दिव्यमानुषाः
गावो ह्यजावयो ऽश्वाश्च हस्तिनः पक्षिणो नगाः
देवस्थानेषु जायन्ते तद्रूपा एव ते पुनः
तेषां रूपानुरूपैस्तु प्रमाणैः स्थाणुजङ्गमैः
अतः शिष्टान्प्रवक्ष्यामि सतः साधूंस्तथैव च
साजात्याद्ब्रह्मणस्त्वेते तेन सन्तः प्रचक्षते
न क्रुध्यन्ति न त्दृष्यन्ति जितात्मानस्तु ते स्मृताः
ब्रह्मक्षत्रविशो यस्माद्युक्तास्तस्मा द्द्विजातयः
श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मज्ञ उच्यते
गृहाणां साधनाच्चैव गृहस्थः साधुरुच्यते
यतमानो यतिः साधुः स्मृतो योगस्य साधनात्
गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा
अयं धर्मो ह्ययं नेति विन्दते भिन्नदर्शनाः
कुशलाकुशलं कर्म धर्माधर्माविह स्मृताम्
अधारणामहत्त्वे च अधर्म इति चोच्यते
अधर्मश्चानिष्टफलोह्याचार्यैरुपदिश्यते
सम्यग्विनीता ऋजवस्तानाचार्यान्प्रजक्षते
आचिनोति च शास्त्राणि आचार्यस्तेन चोच्यते
दाराग्निहोत्रसम्बन्धाद्द्विधा श्रौतस्य लक्षणम्
पूर्वेभ्यो वेदयित्वेह श्रौतं सप्तर्ष यो ऽब्रुवन्
मन्वन्तरस्यातीतस्य स्मृत्वाचारान्मनुर्जगौ
स एष विविधो धर्मः शिष्टाचार इहोच्यते
मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः
धर्मार्थं ये च तिष्ठन्ति ताञ्छिष्टान्वै प्रचक्षते
तैः शिष्टैश्चरितो धर्मः सम्यगेव युगे युगे
शिष्टैराचर्यते यस्मान्मनुना च पुनः पुनः