आसुरी सर्पगान्धर्वा पैशाची यक्षराक्षसी
पिशाचासुरगन्धर्वां यक्षराक्षसपन्नगाः
षण्णवत्यङ्गुलो त्सेधो ह्यष्टानां देवजन्मनाम्
एतत्स्वाभाविकं तेषां प्रमाणमिति कुर्वते
देवासुरप्रमाणं तु सप्तसप्तङ्गुलादसत्
देवासुरप्रमाणं तु उच्छ्रयात्कलिजैः स्मृतम्
स्वेनाङ्गुलिप्रमाणेन ऊर्द्ध्वमापादमस्तकात्
सर्वेषु युगकालेषु अतीतानागतेष्विह
आपादतलमस्तिष्को नवतालो भवेत्तु यः
गवाश्वहस्तिनां चैव महिष स्यावरात्मनाम्
षट्सप्तत्यङ्गुलोत्सेधः पशूनां ककुदस्तु वै
अङ्गुलानां सहस्रं तु चत्वारिंशाङ्गुलैर्विना
मानुषस्य शरीरस्य सन्निवेशस्तु यादृशः
बुद्ध्यातिशययुक्तश्च देवानां काय उच्यते
इत्येते वै परिक्रान्ता भावा ये दिव्यमानुषाः
गावो ह्यजावयो ऽश्वाश्च हस्तिनः पक्षिणो नगाः
देवस्थानेषु जायन्ते तद्रूपा एव ते पुनः
तेषां रूपानुरूपैस्तु प्रमाणैः स्थाणुजङ्गमैः
अतः शिष्टान्प्रवक्ष्यामि सतः साधूंस्तथैव च
साजात्याद्ब्रह्मणस्त्वेते तेन सन्तः प्रचक्षते
न क्रुध्यन्ति न त्दृष्यन्ति जितात्मानस्तु ते स्मृताः
ब्रह्मक्षत्रविशो यस्माद्युक्तास्तस्मा द्द्विजातयः
श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मज्ञ उच्यते
गृहाणां साधनाच्चैव गृहस्थः साधुरुच्यते
यतमानो यतिः साधुः स्मृतो योगस्य साधनात्
गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा
अयं धर्मो ह्ययं नेति विन्दते भिन्नदर्शनाः
कुशलाकुशलं कर्म धर्माधर्माविह स्मृताम्
अधारणामहत्त्वे च अधर्म इति चोच्यते
अधर्मश्चानिष्टफलोह्याचार्यैरुपदिश्यते