निशायामिव खद्योतः प्रापृट्काले ततस्ततः
अनुमानादसंमूढो भूमेरद्धरणं प्रति
ततो महात्मा मनसा दिव्यरूपम चिन्तयत्
किं तु रूपमहं कृत्वा सलिलादुद्धरे महीम्
उदृश्यं सर्वभूतानां वाङ्मयं ब्रह्मसंज्ञितम्
नीलमेघप्रतीकाशं मेघस्तनितनिःस्वनम्
विद्युदग्निप्रतिकाशमादित्यसमतेजसम्
पीनोन्नतकटीदेशं वृषलक्षणपूजितम्
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम्
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः
प्राग्वंशकायो द्युतिमान् नानादीक्षाभिरन्वितः
उपाकर्मरुचिश्चैव प्रवर्ग्यावर्तभूषणः
मायापत्नीसहायो वै गिरिशृङ्गमिवोच्छ्रयः
आज्यगन्धः स्रुवस्तुण्डः सामघोषस्वनो महान्
प्रायश्चित्तनखो घोरः पशुजानुर्महामखः
वाद्यन्तरात्मसत्रस्य नास्मिकासो मशोणितः
अग्निसंछादितां भूमिं समामिच्छन्प्रजापतिम्
पृथक् तास्तु समीकृत्य पृथिव्यां सो ऽचिनोद्गिरीन्
देनाग्निना विलीनास्ते पर्वता भुवि सर्वशः
निषिक्ता यत्रयत्रासंस्तत्रतत्राचलो ऽभवत्
विश्वकर्मा विभजते कल्पादिषु पुनः पुनः
भूराद्यांश्चतुरो लोकान्पुनःपुनरकल्पयत्
ब्रह्मा स्वयंभूर्भगवाम् सिसृक्षुर्विविधाः प्रजाः
तस्याभिध्यायतः सर्गं तदा वै बुद्धिपूर्वकम्
तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः
पञ्चधावस्थितः सर्गो ध्यायत साभिमानिनः
बहिरन्तश्चाप्रकाशस्तथानिःसंज्ञ एव च
तस्माच्च संवृतात्मानो नगा मुख्याः प्रकीर्तिताः
अप्रती तमनाः सोथ तदोत्पत्तिममन्यत
यस्मात्तिर्यग्विवर्त्तेत तिर्यकस्रोतस्ततः स्मृतः