मांसैर्मूलफलैश्चैव वर्तयन्तः सुदुःखिताः
एतां काष्ठामनुप्राप्ता अल्पशेषाः प्रजास्ततः
विचारणा तु निर्वेदात्साम्यावस्था विचारणात्
तासूपशमयुक्तासु कलिशिष्टासु वै स्वयम्
चित्तसंमोहनं कृत्वा तासां वै सुप्तमत्तवत्
प्रवृत्ते तु ततस्तस्मिन्पूते कृतयुगे तु वै
तिष्ठन्ति चेह ये सिद्धा अदृष्टा विचरन्ति च
ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह
तेषां सप्तर्षयो धर्मं कथयन्तीतरेषु च
ततस्तेषु क्रियावत्सु वर्तन्ते वै प्रजाः कृते
केचिद्धर्मव्यवस्थार्थं तिष्ठन्तीहायुगक्षयात्
यथा दावप्रदग्धेषु तृणेष्विह तपेन तु
तथा कार्तयुगानां तु कलिजष्विह संभवः
वर्त्तते ह्यव्यवच्छेदाद्यावन्मन्वन्तरक्षयः
युगेष्वेतानि हीयन्ते त्रित्रिपादाः क्रमेण च
इत्येष प्रतिसंधिर्यः कीर्त्तितस्तु मया द्विजाः
एषा चतुर्युगावृत्तिरासहस्रद्गुणीकृता
अत्रार्जवं जडीभावो भूतानामायुगक्षयात्
एषा चतुर्युगानां च गुणिता ह्येकसप्ततिः
चतुर्युगे यथैकस्मिन्भवतीह यथा तु यत्
सर्गे सर्गे तथा भेदा उत्पद्यन्ते तथैव तु
मन्वन्तराणां सर्वेषामेतदेव तु लक्षणम्
तथा न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्त्तमानः
इत्येत ल्लक्षणं प्रोक्तं युगानां वै समासतः
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै
अनागतेषु तद्वच्च तर्कः कार्यो विजानता
तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत
ऋषयो मनवश्चैव सर्वे तुल्याः प्रयोजनैः
युगस्वभावांश्च तथा विधत्ते वै सदा प्रभुः
विस्तरेणानुपूर्व्या च स्थितिं वक्ष्ये युगेष्विह