प्रगृहीतायुधैर्विप्रैः शतशो ऽथ सहस्रशः
सह वा सर्वशश्चैव राज्ञस्ताञ्छूद्रयोनिजान्
नात्यर्थ धार्मिका ये च तान्सर्वान्हन्ति सर्वशः
उदीच्यान्मध्यदेश्यांश्च पवतीयांस्तथैव च
तथैव दाक्षिणात्यांश्च द्रविडान्सिंहलैः सह
तुषारान्बर्बरांश्चीनाञ्छूलिकान्दरदान् खशान्
प्रवृत्तचक्रो बलवान्म्लेच्छानामन्तकृत्प्रभुः
माधवस्य तु सोंऽशेन देवस्येह विजज्ञिवान्
गोत्रतो वै चन्द्रमसः पूर्वे कलियुगे प्रभुः
विनिघ्नन्सर्वभूतानि मानवानेव सर्वशः
परस्पर निमित्तेन कोपेनाकस्मिकेन तु
गङ्गायमुनयोर्मध्ये निष्ठां प्राप्तः सहानुगः
उत्साद्य पार्थिवान्सर्वान्मलेच्छांश्चैव सहस्रशः
स्थितास्वल्पावशिष्टासु प्रजास्विह क्वचित्क्वचित्
उपहिसंति चान्योन्यं पोथयन्तः परस्परम्
प्रजास्ता वै ततः सर्वाः परस्परभयार्द्दिताः
स्वान्प्रणाननपेक्षन्तो निष्कारणसुदुःखिताः
निर्मर्यादा निराक्रन्दा निःस्नेहा निरपत्रपाः
हित्वा पुत्रांश्च दारांश्च विषादव्याकुलेद्रियाः
प्रत्यन्तांस्ता निषेवन्ते हित्वा जनपदान्स्वकान्
मांसैर्मूलफलैश्चैव वर्तयन्तः सुदुःखिताः
एतां काष्ठामनुप्राप्ता अल्पशेषाः प्रजास्ततः
विचारणा तु निर्वेदात्साम्यावस्था विचारणात्
तासूपशमयुक्तासु कलिशिष्टासु वै स्वयम्
चित्तसंमोहनं कृत्वा तासां वै सुप्तमत्तवत्
प्रवृत्ते तु ततस्तस्मिन्पूते कृतयुगे तु वै
तिष्ठन्ति चेह ये सिद्धा अदृष्टा विचरन्ति च
ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह
तेषां सप्तर्षयो धर्मं कथयन्तीतरेषु च
ततस्तेषु क्रियावत्सु वर्तन्ते वै प्रजाः कृते