प्रनष्टचेष्टना धूर्त्ता मुक्तकेशास्त्त्वशूलिनः
शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः
सस्यचोरा भविष्यन्ति तथा चैलापहारिणः
ज्ञानकर्मम्युपरते लोके निष्क्रियतां गते
अभीक्ष्णं क्षेममारोग्यं सामर्थ्यं दुर्लभं तथा
दुःखेनाभिप्लुतानां च परमायुः शतं तदा
तत्सीदन्ते तथा यज्ञाः केवलाधर्मपीडिताः
वेदविक्रयिमश्चन्ये तीर्थविक्रयिणो ऽपरे
उत्पद्यन्ते तदा ते वै संप्राप्ते तु कलौ युगे
यजन्ते चाश्वमेधेन राजानः शूद्रयोनयः
अपहत्य तथान्योन्यं साधयन्ति तदा प्रजाः
अधर्माभिनिवेशित्वात्तमोवृत्तं कलौ स्मृतम्
तस्मादायुर्बलं रूपं कलिं प्राप्य प्रहीयते
धन्या धर्मं चरिष्यन्ति युगान्ते द्विजसत्तमाः
त्रेतायामाब्दिको धर्मो द्वापरे मासिकः स्मृतः
एषा कलियुगावस्था संध्यांशं तु निबोधत
युगस्वभावात्संध्यासु तिष्ठन्तीह तु यादृशः
एवं संध्यांशके काले संप्राप्ते तु युगान्तिके
गोत्रेण वै चन्द्र मसो नाम्ना प्रमतिरुच्यते
समाः सविंशतिः पूर्णाः पर्यटन्वै वसुंधराम्
प्रगृहीतायुधैर्विप्रैः शतशो ऽथ सहस्रशः
सह वा सर्वशश्चैव राज्ञस्ताञ्छूद्रयोनिजान्
नात्यर्थ धार्मिका ये च तान्सर्वान्हन्ति सर्वशः
उदीच्यान्मध्यदेश्यांश्च पवतीयांस्तथैव च
तथैव दाक्षिणात्यांश्च द्रविडान्सिंहलैः सह
तुषारान्बर्बरांश्चीनाञ्छूलिकान्दरदान् खशान्
प्रवृत्तचक्रो बलवान्म्लेच्छानामन्तकृत्प्रभुः
माधवस्य तु सोंऽशेन देवस्येह विजज्ञिवान्
गोत्रतो वै चन्द्रमसः पूर्वे कलियुगे प्रभुः
विनिघ्नन्सर्वभूतानि मानवानेव सर्वशः