पूर्णे वर्षसहस्रे वै परमायुस्तदा नृणाम्
उत्सीदन्ति नराश्चैव क्षत्रियाश्च विशः क्रमात्
भवन्तीह कलौ तस्मिञ्छयनासनभोजनैः
गुणहीनाः प्रजाश्चैव तदा वै संप्रवर्त्तते
शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः
भृत्या एते ह्यसुभृतो युगान्ते समवस्थिते
मायाविन्यो भविष्यन्ति युगान्ते मुनिसत्तम
श्वापदप्रबलत्वं च गवां चैव ह्युपक्षयः
तदा धर्मो महोदर्के दुर्लभो दानमूलवान्
तदा ह्यल्पफला भूमिः क्वचिच्चापि महाफला
युगान्ते च भविष्यन्ति स्वरक्षणपरायणाः
शूद्राभिवादिनः सर्वे युगान्ते द्विजसत्तमाः
प्रमदाः केशशूलाश्च युगान्ते समुपस्थिते
यतयश्च भविष्यन्ति बहवो ऽस्मिन्कलौ युगे
सर्वे वाणिजकाश्चा पि भविष्यन्त्यधमे युगे
कुशीलचर्यापाखण्डैर्व्याधरूपैः समावृतम्
बाहुयाचनको लोको भविष्यति परस्परम्
न कृते प्रतिकर्त्ता च युगे क्षीणे भविष्यति
ततः शून्य वसुमती भविष्यति वसुन्धरा
हर्त्तारः पररत्नानां परदारविमर्शकाः
प्रनष्टचेष्टना धूर्त्ता मुक्तकेशास्त्त्वशूलिनः
शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः
सस्यचोरा भविष्यन्ति तथा चैलापहारिणः
ज्ञानकर्मम्युपरते लोके निष्क्रियतां गते
अभीक्ष्णं क्षेममारोग्यं सामर्थ्यं दुर्लभं तथा
दुःखेनाभिप्लुतानां च परमायुः शतं तदा
तत्सीदन्ते तथा यज्ञाः केवलाधर्मपीडिताः
वेदविक्रयिमश्चन्ये तीर्थविक्रयिणो ऽपरे
उत्पद्यन्ते तदा ते वै संप्राप्ते तु कलौ युगे
यजन्ते चाश्वमेधेन राजानः शूद्रयोनयः