परस्परविभिन्नैस्तैदृष्टीनां विभ्रमेण च
कारणानां च वैकल्प्यात्कार्याणां चाप्यनिश्चयात्
ततो दृष्टिविभन्नैस्तु कृतं शास्त्राकुलं त्विदम्
संक्षयादायुपश्चैव व्यस्यते द्वापरेषु च
मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः
सामान्या वैकृताश्चैव दृष्टिभिन्ने क्वचित्क्वचित्
अन्ये ऽपि प्रस्थितास्तान्वै केचित्तान्प्रत्यवस्थिताः
एकमाध्वर्यवं त्वासीत्पुनर्द्वैधमजायत
आध्वर्यवस्य प्रस्थानैर्बहुधा व्याकुलीकृतैः
व्याकुलेद्वापरे नित्यं क्रियते भिन्न दर्शनैः
द्वापरे संप्रवर्त्तते विनश्यन्ति ततः कलौ
अवृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः
निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा
दोषदर्शनतस्चैव द्वापरे ऽज्ञानसंभवः
उत्पद्यन्ते हि शास्त्राणां द्वापरे परिपन्थिनः
अर्थशास्त्रविकल्पाश्च हेतुशास्त्रविकल्पनम्
स्मृतिशास्त्रप्रभेदश्च प्रस्थानानि पृथक्पृथक्
मनसा कर्मणा वाचा कृच्छ्राद्वार्ता प्रसिद्ध्यति
लोभो वृत्तिर्वणिक्पूर्वा तत्त्वानामविनिश्चयः
वर्णाश्रमपरिध्वंसः कामक्रोधौ तथैव च
वेदं व्यासश्चतुर्द्धा तु व्यस्यते द्वापरादिषु
प्रतिष्ठते गुणैर्हीनो धर्मो ऽसौ द्वापरस्य तु
द्वापरस्यावशेषेण तिष्यस्य तु निबोधत
हिंसासूयानृतं माया वधश्चैव तपस्विनाम्
एष धर्मः कृतः कृत्स्नो धर्मश्च परिहीयते
कलौ प्रमारकी रोगः सततं क्षुद्भयानि च
न प्रमाणं स्मृतेरस्ति तिष्ये लोकेषु वै युगे
स्थविराः के ऽपि कौमारे म्रियन्ते वै कलौ प्रजाः
विप्राणां कर्मदोषैस्तैः प्रजानां जायते भयम्
तिष्ये भवन्ति जन्तूनां रागो लोभश्च सर्वशः