यष्टव्यं पशुभिर्मे ध्यैरथ बीजैः फलैरपि
यथेह देवता मन्त्रा हिंसालिङ्गा महर्षिभिः
तत्प्रामाण्यान्मया चोक्तं तस्मात्स प्राप्तुमर्हथ
तथा प्रवततां यज्ञो ह्यन्यथा वो ऽनृतं वचः
अवश्यभावितं दृष्ट्वा तमथो वाग्यताभवन्
ऊर्ध्वचारी वसुर्भूत्वा रसातलचरो ऽभवत्
धर्माणां संशयच्छेत्ता राजा वसुरधोगतः
बहुद्वारस्य धर्मस्य सूक्ष्मा दूरतरा गतिः
देवानृषीनुपादाय स्वायंभुवमृते मनुम्
ऋषिकोटिसहस्राणि स्वतपोभिर्दिवं ययुः
उञ्छमूलफलं शाकमुदपात्रं तपोधनाः
अद्रोहश्चाप्य लोभश्च तपो भुतदया दमः
सनातनस्य धर्मस्य मूलमेतद्दुरासदम्
प्रियव्रतोत्तानपादौ ध्रुवो मेधातिथिर्वसुः
प्राजीनबर्हिः पर्जन्यो हविर्धानादयो नृपः
राजर्षयो महासत्त्वा येषां कीर्त्तिः प्रतिष्ठिता
ब्रह्मणा तपसा सृष्टं जगद्विश्वमिदं पुरा
द्रव्यमन्त्रात्मको यज्ञस्तपस्त्वनशनात्मकम्
ब्राह्मं तु कर्म संन्यासाद्वैराग्यात्प्रकृतेर्जयम्
एवं विवादः सुमहान्य ज्ञस्यासीत्प्रवर्त्तने
ततस्तमृषयो दृष्ट्वा हतं धर्मबलेन तु
गतेषु मुनिसंघेषु देवा यज्ञं समाप्नुवन्
ततः प्रभृति यज्ञो ऽयं युगैः सह विवर्त्तितः
तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते
परिवृत्ते युगे तस्मिंस्ततस्ताभिः प्रणश्यति
संभेदश्चैव वर्णानां कार्याणां च विपर्ययः
एषा रजस्तमोयुक्ता प्रवृत्तिर्द्वापरे स्मृता
द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे
द्वैविध्यं प्रतिपद्येतेयुगे तस्मिञ्छ्रुति स्मृती
अनिश्चयाधिगमनाद्धर्मतत्त्वं न विद्यते