अन्तर्हितायां संध्यायां सार्द्धं कृतयुगेन तु
औषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने
वर्णाश्रमव्यवस्थानं कृत्वा मन्त्रांस्तु संहतान्
तदा विश्वभुगिन्द्रश्च यज्ञं प्रावर्त्तयत्प्रभुः
तस्याश्वमेधे वितते समाजग्मुर्महर्षयः
कर्मव्यग्रेषु ऋत्विक्षु संतते यज्ञकर्मणि
परिक्रान्तेषु लघुषु ह्यध्वर्युवृषभेषु च
हविष्यग्नौ हूयमाने ब्राह्मणैश्चाग्निहोत्रिभिः
य इन्द्रियात्मका देवास्तदा ते यज्ञभागिनः
अध्वर्यवः प्रैषकाले व्यत्थिता वै महर्षयः
प्रपच्छुरिद्रं संभूय को ऽयं यज्ञ विधिस्तव
ततः पशुवधश्चैष तव यज्ञे सुरोत्तम
नायं धर्मो ह्यधर्मो ऽयं न हिंसा धर्म उच्यते
विधिदृष्टेन यज्ञेन धर्मेणाव्यपसेतुना
त्रिवर्षं परमं कालमुषितैरप्ररोहिभिः
एवं विश्वभुगिन्द्रस्तु ऋषिभिस्तत्त्वदर्शिभिः
जङ्गमस्थावरैः कैर्हि यष्टव्यमिति चोच्यते
सन्धाय वाक्यमिन्द्रेण पप्रच्छुः खेचरं वसुम्
औत्तानपादे प्रब्रूहि संशयं नो नुद प्रभो
वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह
यष्टव्यं पशुभिर्मे ध्यैरथ बीजैः फलैरपि
यथेह देवता मन्त्रा हिंसालिङ्गा महर्षिभिः
तत्प्रामाण्यान्मया चोक्तं तस्मात्स प्राप्तुमर्हथ
तथा प्रवततां यज्ञो ह्यन्यथा वो ऽनृतं वचः
अवश्यभावितं दृष्ट्वा तमथो वाग्यताभवन्
ऊर्ध्वचारी वसुर्भूत्वा रसातलचरो ऽभवत्
धर्माणां संशयच्छेत्ता राजा वसुरधोगतः
बहुद्वारस्य धर्मस्य सूक्ष्मा दूरतरा गतिः
देवानृषीनुपादाय स्वायंभुवमृते मनुम्
ऋषिकोटिसहस्राणि स्वतपोभिर्दिवं ययुः