सत्यं जपस्तपो दानं त्रेताया धर्म उच्यते
जायन्ते च तदा शूरा आयुष्मन्तो महाबलाः
पद्मपत्रायताक्षाश्च पृथूरस्काः सुसंहताः
महाधनुर्द्धराश्चैव त्रेतायां चक्रवर्त्तिनः
न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उच्यते
समोछ्रयपरीणाहो ज्ञेयो न्यग्रोधमण्डलः
सप्तैतानि च रत्नानि सर्वेषां चक्रवर्तिनाम
केतुर्निधिश्च सप्तैव प्राणहीनानि चक्षते
मन्त्र्यश्वः कलभश्चैव प्राणिनः सप्त कीर्त्तिताः
चतुर्दश विधेयानि सर्वेषां चक्रवर्त्तिनाम्
मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह
त्रेतायुगे च तान्यत्र जायन्ते चक्रवर्त्तिनः
अत्यद्भुतानि चत्वारि बलं धर्मः सुखं धनम्
अर्थो धर्मश्च कामश्च यशो विजय एव च
श्रुतेन तपसा चैव मुनीनभिभवन्ति वै
लक्षणैश्चैव जायन्ते शरीरस्थैरमानुषैः
ताम्रप्रभोष्टनेत्राश्च श्रीवत्साश्चैद्ध्वरोमशाः
न्यग्रोधपरिणाहाश्च सिंहस्कन्धास्तु मेहनाः
पादयोश्चक्रमत्स्योन्तु शङ्खपद्मौ तुहस्तयोः
असंगगतयस्तेषां चतस्रश्चक्रवर्त्तिनाम्
इज्या दानं तपः सत्यं त्रेतायां धर्म उच्यते
मर्यादास्थापनार्थं च दण्डनीतिः प्रवर्त्तते
एको वेदश्चतुष्पादस्त्रेतायुगविधौस्मृतः
पुत्रपौत्रसमाकीर्णा म्रियन्ते च क्रमेण तु
संध्यापादः स्वभावस्तु सोंऽशपदेन तिष्ठति
पूर्वं स्वायंभुवे सर्गे यथावत्तच्च ब्रूहि मे
कालाख्यायां प्रवृत्तायां प्राप्ते त्रेतायुगे तदा
प्रतिष्ठितायां वार्त्तायां गृहाश्रमपरे पुनः
संभारांस्तांस्तु मंभृत्य कथं यज्ञः प्रवर्त्तितः
यथा त्रेतायुगमुखे यज्ञस्य स्यात्प्रवर्तनम्