योगीश्वरः शरीराणि करोति विकरोतिच
त्रिधा यद्वर्तते लोके तस्मात्र्रिगुण उच्यते
यदा शेते तदार्धाते यद्भुङ्क्ते विषयान्प्रभुः
ऋषिः सर्वगतश्चात्र शरीरे सो ऽभ्ययात्प्रभुः
भगवानग्रसद्भावान्नागो नागस्वसंश्रयात्
सर्वज्ञः सर्वविज्ञानात्सर्वःसर्वंयतस्ततः
त्रिधा विभज्य चात्मानं सकलः संप्रवर्त्तते
सो ऽग्रे हिरण्यगर्भः सन् प्रादुर्भूतः स्वयं प्रभुः
तस्माद्धिरण्यगर्भश्च पुराणेषु निरुच्यते
न शक्यः परिसंख्यातुं मनुवर्षशतैरपि
तावत्त्वे सो ऽस्य कालो ऽन्यस्तस्यान्ते प्रतिबुद्ध्यते
समतीतानि कल्पानां तावच्छेषात्परेतु ये
प्रथमं सांप्रतस्तेषां कल्पो वै वर्त्तते च यः
पूर्णे युगसहस्रे तु परिपाल्यं नरेश्वरैः
शान्तवातैः प्रलीने ऽस्मिन्न प्राज्ञायत किञ्चन
विभुर्भवति स ब्रह्मा सहस्राक्षः सहस्रपात्
ब्रह्म नारायणाख्यस्तु सुष्वाप सलिले तदा
इमं चोदाहरन्त्यत्रर् श्लोकं नारायणं प्रति
अयन तस्य ताःप्रोक्तास्तेन नारायणः स्मृतः
स्वर्णपत्रेप्रकुरुते ब्रह्मत्वादर्शकारणात्
निशायामिव खद्योतः प्रापृट्काले ततस्ततः
अनुमानादसंमूढो भूमेरद्धरणं प्रति
ततो महात्मा मनसा दिव्यरूपम चिन्तयत्
किं तु रूपमहं कृत्वा सलिलादुद्धरे महीम्
उदृश्यं सर्वभूतानां वाङ्मयं ब्रह्मसंज्ञितम्
नीलमेघप्रतीकाशं मेघस्तनितनिःस्वनम्
विद्युदग्निप्रतिकाशमादित्यसमतेजसम्
पीनोन्नतकटीदेशं वृषलक्षणपूजितम्
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम्
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः