संकल्पितेन मनसा वाचोक्तेन स्वकर्मणा
आयुर्मेधा बलं रूपमारोग्यं धर्मशीलता
वर्णाश्रमव्यवस्थानं तेषां ब्रह्मा तदाकरोत्
परस्परविरोधेन मनुं ताः पुनरभ्ययुः
ध्यात्वा तु शतरूपायां पुत्रौ स उदपादयत्
ततः प्रभृति राजान उत्पन्ना दण्डधारिणः
प्रच्छन्न पापास्तैर्ये च न शक्यास्तु नराधिपैः
वर्णानां प्रविभागाश्च त्रेतायां संप्रकीर्त्तिताः
यज्ञाः प्रवर्त्तिताश्चैव तदा ह्येव तु दैवतैः
सार्द्धं विश्वभुजा चैव देवेन्द्रेण महौजसा
सत्यं जपस्तपो दानं त्रेताया धर्म उच्यते
जायन्ते च तदा शूरा आयुष्मन्तो महाबलाः
पद्मपत्रायताक्षाश्च पृथूरस्काः सुसंहताः
महाधनुर्द्धराश्चैव त्रेतायां चक्रवर्त्तिनः
न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उच्यते
समोछ्रयपरीणाहो ज्ञेयो न्यग्रोधमण्डलः
सप्तैतानि च रत्नानि सर्वेषां चक्रवर्तिनाम
केतुर्निधिश्च सप्तैव प्राणहीनानि चक्षते
मन्त्र्यश्वः कलभश्चैव प्राणिनः सप्त कीर्त्तिताः
चतुर्दश विधेयानि सर्वेषां चक्रवर्त्तिनाम्
मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह
त्रेतायुगे च तान्यत्र जायन्ते चक्रवर्त्तिनः
अत्यद्भुतानि चत्वारि बलं धर्मः सुखं धनम्
अर्थो धर्मश्च कामश्च यशो विजय एव च
श्रुतेन तपसा चैव मुनीनभिभवन्ति वै
लक्षणैश्चैव जायन्ते शरीरस्थैरमानुषैः
ताम्रप्रभोष्टनेत्राश्च श्रीवत्साश्चैद्ध्वरोमशाः
न्यग्रोधपरिणाहाश्च सिंहस्कन्धास्तु मेहनाः
पादयोश्चक्रमत्स्योन्तु शङ्खपद्मौ तुहस्तयोः
असंगगतयस्तेषां चतस्रश्चक्रवर्त्तिनाम्