तस्यैकशतिका संध्या संध्यांशः संध्यया समः
कृतं त्रेता द्वापरं च कलिश्चैव चतुष्टयम्
कृतस्य तावद्वक्ष्यामि वर्षाणि च निबोधत
चत्वारिंशत्सहस्राणि तथान्यानि कृतं युगम्
अशीतिश्च सहस्राणि कालस्त्रेतायुगस्य सः
विंशतिश्च सहस्रामि कालः स द्वापरस्य च
षष्टिश्चैव सहस्राणि कालः कलियुगस्य तु
नियुतान्येव षडिंशान्निरसानि युगानि वै
विंशतिश्च सहस्राणि स संध्यांशश्चतुर्युगः
कृतत्रेतादियुक्तानां मनोरन्तरमुच्यते
त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण प्रकीर्त्तिताः
विशतिश्च सहस्राणि कालो ऽयं साधिकं विना
मन्वन्तरस्य कालो ऽयं युगैः सार्द्धं च कीर्त्तितः
त्रेताशिष्टं प्रवक्ष्यामि द्वापरं कलिमेव च
क्रमागतं मया ह्येतत्तुभ्यं नोक्त युग द्वयम्
अत्र त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ये
दाराग्निहोत्रसंबन्धमृग्यजुः सामसंहितम्
परंपरागतं धर्म स्मार्त्तं चाचारलक्षणम्
सत्येन ब्रह्मचर्येण श्रुतेन तपसा च वै
सप्तर्षीणां मनोश्चैव ह्याद्ये त्रेतायुगे तथा
अभिव्यक्तास्तु ते मन्त्रास्तारकाद्यैर्निदर्शनैः
प्राणाशेष्वथ सिद्धीनामन्यासां च प्रवर्त्तनम्
ते मन्त्रा वै पुनस्तेषां प्रतिभायामुपस्थिताः
सप्तर्षिभिस्तु ते प्रोक्ताः स्मार्त्तं धर्मं मनुर्जगौ
संरोधादायुषश्चैव वर्त्स्यन्ते द्वापरेषु वै
अनादिनिधिना दिव्याः पूर्वं सृष्टाः स्वयंभुवा
विक्रियन्ते समानार्था वेदवादा यथायुगम्
परिचारयज्ञाः शूद्रास्तु जपयज्ञा द्विजोत्तमाः
क्रियावन्तः प्रजावन्तः समृद्धाः सुखिनस्तथा
वैश्यानुवर्त्तिनः शुद्राः परस्परमनुव्रताः