अन्यानि नवतिश्चैव ध्रुवः संवत्सरः स्मृतः
वर्षाणां तु शतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः
त्रीण्येव नियुतान्याहुर्वर्षाणां मानुषाणि तु
दिव्यवर्षसहस्र तु प्राहुः संख्याविदो जनाः
दिव्येनैव प्रमाणेन युगसंख्याप्रकल्पनम्
कृतं त्रेता द्वापरं च कलिश्चेति चतुष्टयम्
द्वापरं च कलिश्चैव युगान्येतानि कल्पयेत्
तस्य तावच्छती संध्या संध्यांशः संध्याया समः
एकन्यायेन वर्तन्ते सहस्राणि शतानि च
त्रिशती द्विशती संध्ये संध्यांशौ चापि तत्समौ
तस्यैकशतिका संध्या संध्यांशः संध्यया समः
कृतं त्रेता द्वापरं च कलिश्चैव चतुष्टयम्
कृतस्य तावद्वक्ष्यामि वर्षाणि च निबोधत
चत्वारिंशत्सहस्राणि तथान्यानि कृतं युगम्
अशीतिश्च सहस्राणि कालस्त्रेतायुगस्य सः
विंशतिश्च सहस्रामि कालः स द्वापरस्य च
षष्टिश्चैव सहस्राणि कालः कलियुगस्य तु
नियुतान्येव षडिंशान्निरसानि युगानि वै
विंशतिश्च सहस्राणि स संध्यांशश्चतुर्युगः
कृतत्रेतादियुक्तानां मनोरन्तरमुच्यते
त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण प्रकीर्त्तिताः
विशतिश्च सहस्राणि कालो ऽयं साधिकं विना
मन्वन्तरस्य कालो ऽयं युगैः सार्द्धं च कीर्त्तितः
त्रेताशिष्टं प्रवक्ष्यामि द्वापरं कलिमेव च
क्रमागतं मया ह्येतत्तुभ्यं नोक्त युग द्वयम्
अत्र त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ये
दाराग्निहोत्रसंबन्धमृग्यजुः सामसंहितम्
परंपरागतं धर्म स्मार्त्तं चाचारलक्षणम्
सत्येन ब्रह्मचर्येण श्रुतेन तपसा च वै
सप्तर्षीणां मनोश्चैव ह्याद्ये त्रेतायुगे तथा