पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः
त्रिंशद्ये मानुषा मासाः पित्र्यो मासस्तु सः स्मृतः
पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते
पितॄणां त्रीणि वर्षाणि संख्यातानीह तानि वै
लौकिकेनैव मानेन हृब्दो यो मानुषः स्मृतः
दिव्ये रात्र्यहनी वर्ष प्रविभागस्तयोः पुनः
ये ते रात्र्यहनी दिव्ये प्रसंख्यानं तयोः पुनः
यन्मानुषं शतं विद्धि दिव्या मासास्त्रयस्तु ते
दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्त्तितः
त्रिंशदन्यानि वर्षाणि मतः सप्तर्षिवत्सरः
अन्यानि नवतिश्चैव ध्रुवः संवत्सरः स्मृतः
वर्षाणां तु शतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः
त्रीण्येव नियुतान्याहुर्वर्षाणां मानुषाणि तु
दिव्यवर्षसहस्र तु प्राहुः संख्याविदो जनाः
दिव्येनैव प्रमाणेन युगसंख्याप्रकल्पनम्
कृतं त्रेता द्वापरं च कलिश्चेति चतुष्टयम्
द्वापरं च कलिश्चैव युगान्येतानि कल्पयेत्
तस्य तावच्छती संध्या संध्यांशः संध्याया समः
एकन्यायेन वर्तन्ते सहस्राणि शतानि च
त्रिशती द्विशती संध्ये संध्यांशौ चापि तत्समौ
तस्यैकशतिका संध्या संध्यांशः संध्यया समः
कृतं त्रेता द्वापरं च कलिश्चैव चतुष्टयम्
कृतस्य तावद्वक्ष्यामि वर्षाणि च निबोधत
चत्वारिंशत्सहस्राणि तथान्यानि कृतं युगम्
अशीतिश्च सहस्राणि कालस्त्रेतायुगस्य सः
विंशतिश्च सहस्रामि कालः स द्वापरस्य च
षष्टिश्चैव सहस्राणि कालः कलियुगस्य तु
नियुतान्येव षडिंशान्निरसानि युगानि वै
विंशतिश्च सहस्राणि स संध्यांशश्चतुर्युगः
कृतत्रेतादियुक्तानां मनोरन्तरमुच्यते