यदाहारा भवन्त्येते तासु तास्विह योनिषु
काले न्यायागतं पात्रे विधिना प्रतिपादितम्
यथा गोषु प्रनष्टामु वत्सो विन्दति मातरम्
एवं ह्यविफलं श्राद्धं श्रद्धादत्तं तु मन्त्रतः
गतागतज्ञः प्रेतानां प्राप्तिं श्राद्धस्य तैः सह
कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी
ऋत्वर्तवार्द्धमासास्तु अन्योन्यं पितरः स्मृताः
प्रीतेषु तेषु प्रीयन्ते श्राद्धयुक्तेषु कर्मसु
एवं पितृसतत्त्वं हि पुराणे निश्चयं गतम्
सुधामृतस्य च प्राप्तिः पितॄणां चैव तर्प्पणम्
समासात्कीर्तितस्तुभ्यमेष सर्गः मनातनः
न शक्यं परिसंख्यातुं श्रद्धेयं भूतिमिच्छता
विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम्
तेषां निसर्गं तत्त्वं च श्रोतुमिच्छामि विस्तरात्
तेषां चतुर्युगं ह्येतत्तद्वक्ष्यामि निबोधत
युगं च युगभेदश्च युगधर्मस्तथैव च
षट्प्रकाशयुगाख्यैषा ता प्रवक्ष्यामि तत्त्वतः
निमेषकाल तुल्यं हि विद्याल्लघ्वक्षरं च यत्
त्रिंशत्कलाश्चापि भवेन्मुहूर्त्तस्तै स्त्रिंशता रात्र्यहनी समे ते
अहोरात्रौ विभजते सूर्यो मानुषलौकिकौ
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः
त्रिंशद्ये मानुषा मासाः पित्र्यो मासस्तु सः स्मृतः
पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते
पितॄणां त्रीणि वर्षाणि संख्यातानीह तानि वै
लौकिकेनैव मानेन हृब्दो यो मानुषः स्मृतः
दिव्ये रात्र्यहनी वर्ष प्रविभागस्तयोः पुनः
ये ते रात्र्यहनी दिव्ये प्रसंख्यानं तयोः पुनः
यन्मानुषं शतं विद्धि दिव्या मासास्त्रयस्तु ते
दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्त्तितः
त्रिंशदन्यानि वर्षाणि मतः सप्तर्षिवत्सरः