न मृतानां गतिः शक्या ज्ञातुं न पुनरागतिः
अनुदेवपितॄनेते पितरो लौकिकाः स्मृताः
देवास्ते पितरः सर्वे देवास्तान्वादयन्त्युत
पिता पितामहश्चापि तथा यः प्रपितामहः
ये यज्वानो हविर्यज्ञे ते वै बर्हिषदः स्मृताः
तेषां तु धर्मसाधर्म्यात्स्मृताः सायुज्यगा द्विजैः
अन्ते तु नावसीदन्ति श्रद्धायुक्तास्तु कर्मसु
श्राद्धेन विद्यया चैव प्रदानेन च सप्तधा
दैवैस्तैः पितृभिः सार्द्धं सूक्ष्मजैः सोमयाजनैः
तेषां निवापे दत्ते तु तत्कुलीनैश्च बन्धुभिः
एते मनुष्यपितरो मासश्राद्धभुजस्तु ये
भ्रष्टाश्चाश्रमधर्मेभ्यः स्वधास्वाहाविवर्जिताः
स्वकर्माण्य नुशोचन्तो यातनास्थानमागताः
क्षुत्पिपासापरीताश्च विद्रवन्तस्ततस्ततः
परान्नानि च लिप्संतः काल्यमानास्ततस्ततः
शाल्मले वैतरण्यां च कुंभीपाके तथैव च
शिला संपेषणे चैव पात्यमानाः स्वकर्मभिः
तेषां लोकान्तरस्थानां बान्धवैर्नाम गोत्रतः
यान्ति तास्तर्पयन्ते च प्रेतस्थानेष्वधिष्ठितान्
पश्चाद्ये स्थावरान्ते वै जाता नीचैः स्वकर्मभिः
यदाहारा भवन्त्येते तासु तास्विह योनिषु
काले न्यायागतं पात्रे विधिना प्रतिपादितम्
यथा गोषु प्रनष्टामु वत्सो विन्दति मातरम्
एवं ह्यविफलं श्राद्धं श्रद्धादत्तं तु मन्त्रतः
गतागतज्ञः प्रेतानां प्राप्तिं श्राद्धस्य तैः सह
कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी
ऋत्वर्तवार्द्धमासास्तु अन्योन्यं पितरः स्मृताः
प्रीतेषु तेषु प्रीयन्ते श्राद्धयुक्तेषु कर्मसु
एवं पितृसतत्त्वं हि पुराणे निश्चयं गतम्
सुधामृतस्य च प्राप्तिः पितॄणां चैव तर्प्पणम्