अन्योन्यं चन्द्रसूर्यौं तौ यदा तद्वर्श उच्यते
द्व्यक्षर कुहुमात्रश्च पर्वकालास्त्रयः स्मृताः
दिवसार्द्धेन रात्र्या च सूर्यं प्राप्य तु चन्द्रमाः
द्वौ कालौ संगमं चैव मध्याह्ने नियतं रविः
विमुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै
एतदृतुमुखं ज्ञेयममा वास्यास्य पर्वणः
तस्माद्दिवा ह्यमावास्यां गृह्यते ऽसौ दिवाकरः
कलानामपि चैतासां वृद्धिहान्या जलात्मनः
दर्शयेतामथात्मानं सूर्याचन्द्रमसावुभौ
द्विलवोनमहोरात्रं भास्करं स्पृशते शशी
कुहेति कोकिलेनोक्तो यः स कालः समाप्यते
सिनीवालीप्रमाणस्तु क्षीणशेषो निशाकरः
अनुमत्याश्चराकायाः सिनीवाल्याः कुहूंविना
चन्द्रसूर्यव्यतीपाते संगते पूर्णिमान्तरे
कालः कहूसिनीवाल्योः सामुद्रस्य तु मध्यतः
एवं स शुक्लपक्षे वै रजन्यां पर्वसंधिषु
यस्मादा दाप्यायते सोमः पञ्चदश्यां तु पूर्णिमा
तस्मात्कलाः पञ्चदश सोमेनास्य तु षोडशी
इत्येते पितरो देवाः सोमपाः सोमवर्द्धनाः
अतः पितॄन्प्रवक्ष्यामि मासश्राद्धभुजस्तु ये
न मृतानां गतिः शक्या ज्ञातुं न पुनरागतिः
अनुदेवपितॄनेते पितरो लौकिकाः स्मृताः
देवास्ते पितरः सर्वे देवास्तान्वादयन्त्युत
पिता पितामहश्चापि तथा यः प्रपितामहः
ये यज्वानो हविर्यज्ञे ते वै बर्हिषदः स्मृताः
तेषां तु धर्मसाधर्म्यात्स्मृताः सायुज्यगा द्विजैः
अन्ते तु नावसीदन्ति श्रद्धायुक्तास्तु कर्मसु
श्राद्धेन विद्यया चैव प्रदानेन च सप्तधा
दैवैस्तैः पितृभिः सार्द्धं सूक्ष्मजैः सोमयाजनैः
तेषां निवापे दत्ते तु तत्कुलीनैश्च बन्धुभिः