सुषुम्णाप्यायितं चैव ह्यमावस्यां यथा क्रमम्
पीतक्षयं ततः सोमं सूर्यो ऽसावेकरश्मिना
निः शेषायां कलायां तु सोममाप्याययत्पुनः
कलाः क्षीयन्ति ताः कृष्णाः शुक्ला चाप्याययन्ति तम्
दृश्यते पौर्णमास्यां वै शुक्लः संपूर्णमण्डलः
इत्येवं पितृमान्सोमः स्मृत इड्वत्सरात्मकः
अतः पर्वाणि वक्ष्यामि वर्वणां संधयश्च ये
तथार्द्धमासि पर्वाणि शुक्लकृष्णानि चैव हि
अर्द्धमासं तु पर्वाणि द्वितीयाप्रभृतीनि तु
तस्मात्तु पर्वणामादौ प्रतिपत्सर्वसंधिषु
लवौ द्वावेव राकायां कालो ज्ञेयो ऽपराह्णकः
सायाह्ने प्रतिपन्ने च स कालः पौर्णमासिकः
युगान्तरोदिते चैव लेशार्द्धे शशिनः क्रमात्
यस्मिन्काले समौ स्यातां तौ व्यतीपात एव सः
स वै वषटाक्रियाकालः सद्यः कालं विधीयते
ततो विरज्यते नक्तं पौर्णमास्यां निशाकरः
चन्द्रार्कावपराह्णे तु पूर्णात्मानौ तु पूर्णिमा
तस्मादनुमतिर्नाम पूर्णिमा प्रथमा स्मृता
रञ्जनाच्चैव चन्द्रस्य राकेति कवयो ऽब्रुवन्
राका पञ्चदशी रात्रिरमावास्या ततः स्मृता
अन्योन्यं चन्द्रसूर्यौं तौ यदा तद्वर्श उच्यते
द्व्यक्षर कुहुमात्रश्च पर्वकालास्त्रयः स्मृताः
दिवसार्द्धेन रात्र्या च सूर्यं प्राप्य तु चन्द्रमाः
द्वौ कालौ संगमं चैव मध्याह्ने नियतं रविः
विमुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै
एतदृतुमुखं ज्ञेयममा वास्यास्य पर्वणः
तस्माद्दिवा ह्यमावास्यां गृह्यते ऽसौ दिवाकरः
कलानामपि चैतासां वृद्धिहान्या जलात्मनः
दर्शयेतामथात्मानं सूर्याचन्द्रमसावुभौ
द्विलवोनमहोरात्रं भास्करं स्पृशते शशी