प्रस्यन्दमानात्सोमात्तु पित्रर्थं तु परिश्रवान्
उपास्ते पितृमन्तं तं सोमं दिवि समास्थितः
सिनीवालीप्रमाणेभ्यः सिनीवालीमुपास्य सः
स तदा तामुपासीनः कालापेक्षः प्रपश्यति
दशभिः पञ्चभिश्चैव सुधामृतपरिस्रवैः
सद्यः प्रक्षरता तेन सौम्येन मधुना तु सः
सुधामृतेन राजैन्द्रस्तर्प यामास वै पितॄन्
ऋतमग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः
आर्तवा ह्यर्द्धमासाख्याः पितरो ह्यृतुसूनवः
प्रपितामहास्तु वै देवाः पञ्चाब्दा ब्रह्मणः सुताः
उपहूताः स्मृता देवाः सोमजाः सोमपाः स्मृताः
काव्या बर्हिषद श्चैव अग्निष्वात्ताश्च तास्त्रिधा
गृहस्थाश्चाप्ययज्वान अग्निष्वात्तास्तथार्त्तवाः
तेषां संवत्सरो ह्यग्निः सूयस्तु परिवत्सरः
रुद्रस्तु वत्सरस्तेषां पञ्चाब्दास्ते युगात्मकाः
ये ते पिबन्त्यमावस्यां मासिमासि सुधां दिवि
यस्मात्प्रस्रवते सोमान्मासि मासि धिनोति च
एवं तदमृतं सौम्यं सुधा च मदु चैव ह
पिबन्त्यंबुमयं देवास्त्रयस्त्रिंशत्तु छन्दनाः
इत्येवं पीयमानैस्तु देवैः सर्वैर्निशाकरः
सुषुम्णाप्यायितं चैव ह्यमावस्यां यथा क्रमम्
पीतक्षयं ततः सोमं सूर्यो ऽसावेकरश्मिना
निः शेषायां कलायां तु सोममाप्याययत्पुनः
कलाः क्षीयन्ति ताः कृष्णाः शुक्ला चाप्याययन्ति तम्
दृश्यते पौर्णमास्यां वै शुक्लः संपूर्णमण्डलः
इत्येवं पितृमान्सोमः स्मृत इड्वत्सरात्मकः
अतः पर्वाणि वक्ष्यामि वर्वणां संधयश्च ये
तथार्द्धमासि पर्वाणि शुक्लकृष्णानि चैव हि
अर्द्धमासं तु पर्वाणि द्वितीयाप्रभृतीनि तु
तस्मात्तु पर्वणामादौ प्रतिपत्सर्वसंधिषु