सृष्टिरेषा मया सृष्टा लज्जामोहभयात्मिका
ये चान्येमानवा लोके सर्वे जायन्त्यवाससः
तैरेव संवृतो गुप्तोन वस्त्रं कारणं स्मृतम्
तुल्यौ मानापमानौ च तत्प्रावरणमुत्तमम्
यद्यकार्यसहस्राणि कृत्वा स्नायति भस्मना
तस्मा द्यत्नपरो भूत्वा त्रिकालमपि यः सदा
संहृत्य च क्रतून्सर्वान्गृहीत्वामृतमुत्त मम्
उत्तरेणाथ पन्थानं ते ऽमृतत्वमवाप्नुयुः
अणिमा महिमा चैव लघिमा प्राप्तिरेव च
ईशित्वं च वशित्वं च ह्यमरत्वं च ते गताः
ऐश्वर्यं परमं प्राप्य सर्वे प्रथिततेजसः
परिभवमिदमुत्तमं विदित्वा पशुपतिदयितमिदं व्रतं चरध्वम्
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति
ऐलः पुरूरवाः सूत कथं वातर्पयत्पितॄन्
ऐलस्यादित्यसंयोगं सोमस्य च महात्मनः
ह्रासवृद्धी पिदृमतः पित्र्यस्य च विनिर्णयम्
काव्याग्निष्वात्तमौम्यानां पितॄणाञ्चैव दर्शनम्
एतत्सर्वं प्रवक्ष्यामि पर्वाणि च यथाक्रमम्
अमावस्यां निवसत एकरात्रैकमण्डलौ
अमावस्याममावास्यां मातामहपितामहौ
प्रस्यन्दमानात्सोमात्तु पित्रर्थं तु परिश्रवान्
उपास्ते पितृमन्तं तं सोमं दिवि समास्थितः
सिनीवालीप्रमाणेभ्यः सिनीवालीमुपास्य सः
स तदा तामुपासीनः कालापेक्षः प्रपश्यति
दशभिः पञ्चभिश्चैव सुधामृतपरिस्रवैः
सद्यः प्रक्षरता तेन सौम्येन मधुना तु सः
सुधामृतेन राजैन्द्रस्तर्प यामास वै पितॄन्
ऋतमग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः
आर्तवा ह्यर्द्धमासाख्याः पितरो ह्यृतुसूनवः
प्रपितामहास्तु वै देवाः पञ्चाब्दा ब्रह्मणः सुताः