गायन्ति विविधैर्गुह्यैर् हुंकारैश्चापि सुस्वरैः
अर्द्ध नारीशरीराय सांख्ययोगप्रवर्त्तिने
कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने
मृगपतिवरचर्मवाससे ते पृथुपरशो च नमोस्तु शङ्कराय
वर्णधर्मपराश्चैव चेरुस्ते मुनिसत्तमाः
प्रीतोस्मि युष्मत्तपसा वरं वृणुत मुव्रताः
भृग्वङ्गिरा वसिष्ठश्च विश्वामित्रस्तथैव च
मरीचिः कश्यपश्चापि संवर्तश्च महातपाः
सेव्यासेव्यत्वं तु विभो एतदिच्छाम वेदितुम्
अग्निर्ह्यहं सोमयुतः सोमश्चाग्निमुपश्रितः
असकृच्चाग्निना दग्धं जगत्स्थावरजङ्गमम्
भस्मना वीर्यमास्थाय भूतानि परिषिञ्चति
भस्मना मम वीर्येण मुच्यते सर्वकिल्बिषैः
तत्क्षणात्सर्वपापानां भस्मेति परिकीर्त्यते
अग्नीषोमात्मकं सर्वं जगत्स्थावरजं गमम्
अहमग्निश्च सोमश्च प्रकृत्या पुरुषः स्वयम्
स्ववीर्यं वपुषा चैव धारयामीति वै स्थितिः
भस्मना क्रियते रक्षा सूतिकानां गृहेषु च
मत्समीपसुपागम्य न भूयो विनिवर्तते
पूर्वं पाशुपतं ह्येतन्निर्मितं तदनुत्तमम्
सृष्टिरेषा मया सृष्टा लज्जामोहभयात्मिका
ये चान्येमानवा लोके सर्वे जायन्त्यवाससः
तैरेव संवृतो गुप्तोन वस्त्रं कारणं स्मृतम्
तुल्यौ मानापमानौ च तत्प्रावरणमुत्तमम्
यद्यकार्यसहस्राणि कृत्वा स्नायति भस्मना
तस्मा द्यत्नपरो भूत्वा त्रिकालमपि यः सदा
संहृत्य च क्रतून्सर्वान्गृहीत्वामृतमुत्त मम्
उत्तरेणाथ पन्थानं ते ऽमृतत्वमवाप्नुयुः
अणिमा महिमा चैव लघिमा प्राप्तिरेव च
ईशित्वं च वशित्वं च ह्यमरत्वं च ते गताः